________________
दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम्
गतिलक्षणो धर्मो धर्मास्तिकायः । स्थिरं संस्थानं पदार्थानामवस्थांनं यस्मादसावधर्मास्तिकायः स्थितिलक्षण इत्यर्थः, एतौ हि मनुष्यादिप्रयत्नादप्रयत्नाद् वा पदार्थानां लोके गतिस्थितिहेतू, अलोके त्वेतयोरभावात् सेन्द्रदेवप्रयत्नेनापि गतिस्थिती न स्यातामित्यनयोः सामान्येनाऽस्तित्वस्थापनम्, विशेषश्च गन्धहस्त्यादिभ्यो ज्ञेयः । । २३७ ।।
३२४
-
देव० : पूर्वार्धं सुगमम्, नवरममी अचिद्रूपा अकर्त्तारः, पुद्गलमन्तरेणामूर्त्ता निष्क्रिया एकैकद्रव्यरूपाश्च, धर्माधमौ चैकजीवप्रदेशप्रमितासङ्ख्यप्रदेशौ लोकव्यापिनौ, आकाशमनन्तप्रदेशं लोकालोकव्यापि पुद्गलाः पुनरनन्ता अनियतप्रदेशा लोक एव वर्त्तन्ते कालस्त्वनन्तसमयात्मको मनुष्यक्षेत्र एव यदुक्तम्
समयावलिकापक्षमासर्त्वयनसंज्ञिनः ।
नृलोक एव कालस्य वृत्तिर्नान्यत्र कुत्रचित् ।। [
]इति ।
२
अथैते किंलक्षणा इत्याह-चल्यते गम्यतेऽनेनेति चलनं गमनक्रिया हेतुरेवंविधः स्वभावो यस्य स तथा गतिलक्षण इत्यर्थो धर्मो धर्मास्तिकायः । तथा स्थिरत्वस्य संस्थानं व्यवस्था यस्मादसौ स्थिरसंस्थानो लुप्तभावप्रत्ययस्य व्यधिकरणो बहुव्रीहिः, स्थितिलक्षण इत्यर्थोऽधर्मास्तिकायः, स हि स्थितिपरिणतानां जीवपुद्गलानां स्थितिलक्षणकार्यं प्रत्यपेक्षा- कारणत्वेन व्याप्रियत इति स्थित्यैव लक्ष्यत इति गाथार्थः । । २३७ ।।
१. संज्ञिता TB २ न तु धर्मास्तिकाय एव सिद्ध्यति किमिदं पुनस्तल्लक्षणप्रतिपादनम्, न खलु गगनकमलपरिमलोपवर्णनमुपपत्तिमावहति, तदिदं प्रलापमात्रम्, यतो यद्यच्छुद्धपदवाच्यं तत्तदस्ति यथा स्तम्भादि, शुद्धपदवाच्यश्च धर्मनामाऽस्तिकायो न चायमसिद्धो हेतुर्धर्म इत्यस्य तद्वाचकस्यासमस्तपदत्वेन तथाभिधेयार्थे बाधकप्रमाणाभावात् । प्रमाणान्तरबाधितविषयत्वाख्यदोषरहितत्वेन च सिद्धत्वात् । न च खपुष्पादिषु संकेतितैः खादिशुद्धपदैरनेकान्तो, वृद्धपरम्परायातसंकेतविषयाणामेव शुद्धपदानां वाच्यत्वस्येह हेतुत्वेनेष्टत्वान्निपुणेन च प्रतिपत्रा भाव्यमन्यथा धूमादेरपि गोपालघटिकादिष्वन्यथाभावदर्शनादेषः प्रसङ्गो दुर्निवारः स्यादिति T,B,C ३. अनेनाप्यनुमानमेवसूचितम् । तम् - यद्यत्कार्यं तत्तदपेक्षाकारणवद् यथा घटादिकार्यम्, या चासौ स्थितिर्यच्च तदपेक्षाकारणं तदधर्मास्तिकाय इति । अत्र च नैयायिकादिः सौगतो वा वदेत् नास्त्यधर्मादिकायोऽनुपलक्ष्यमानत्वात् खरविषाणवत्, तत्र यदि नैयायिकादिस्तदासौ वाच्यः कथं भवतोऽपि दिगादयः सन्ति, अथ दिगादिप्रत्ययलक्षणकार्यदर्शनाद् भवति हि कार्यात् कारणमानम्, एवं सति स्थितिलक्षणकार्यदर्शनादयमप्यस्तीति किं न गम्यते, अथ तत्र दिगादिप्रत्ययस्यान्यतोऽसम्भवात् तत्कारणानि दिगादीन्यनुमिमीमहे सिद्धं नः समीहितमाकाशादीनामवगाहनादि स्वस्वकार्य - व्यावृतत्वेन ततोऽसम्भवादधर्मास्तिकायादेव स्थितिः । अथासौ न कदाचिद् दृष्टः, एतद्दिगादिष्वपि समानम् । अथ सौगतः सोऽप्येवं वाच्यो यथा भवतः कथं बाह्यार्थे संसिद्धिर्नहि साकारज्ञानवादिनः कदाचिदप्यसौ प्रत्यक्षगोचर:, अथाकारसंवेदनात्तत्कारणमर्थः परिकल्प्यते स्थितिदर्शनेऽपि किं न तत्कारणस्याधर्मास्तिकायस्य निश्चयः । अथ न कदाचिदसौ तत्कारणत्वेनेक्षितो ननु बाह्यार्थेऽपि समानमेतन्नहि सोऽपि तदाकारकारितया कदाचिदवलोकितः । अथ मनस्कारस्य