________________
५-तत्त्वतत्त्वम् गा-२३७
३२३
तव्यतिरेकेण तस्यासम्भवादथवा रूपं नाम स्पर्शरूपादिसंमूर्च्छनात्मिका मृतिस्तदेषामस्तीति रूपिणःपुद्गलाः, तेषामेव रूपादिमत्त्वात्, रूपव्यतिरेकिणोऽरूपिणोधास्तिकायादयः, तत्र रूपिणश्चतुर्धा, अरूपणिश्च दशधा, बहुवक्तव्यत्वाच्च प्रथममरूपिण आह-धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायाःपूर्वोक्तस्वरूपास्त्रयोऽपि प्रत्येकं त्रिभेदाः, तद्यथा-धर्मास्तिकायद्रव्यं धर्मास्तिकायदेशा धर्मास्तिकायप्रदेशाः, तत्र धर्मास्तिकायद्रव्यरूपं सकलदेशप्रदेशात्मकाविभागधर्मानुगतसमानपरिणामवदवर्यावद्रव्यं धर्मास्तिकायद्रव्यम्, तथा तस्यैव धर्मास्तिकायद्रव्यस्य देशा:-बुद्धिपरिकल्पिता द्वयादिप्रदेशात्मका विभागा धर्मास्तिकायदेशाः, तथा धर्मास्तिकायस्य प्रकृष्टा देशा-निविभागा भागा धर्मास्तिकायप्रदेशाः, ते चासङ्ख्येया लोकाकाशप्रदेशप्रमाणत्वात्तेषाम्, एवमधर्मास्तिकायाकाशास्तिकाययोरपि प्रत्येकं त्रिभेदता वाच्या, नवरमाकाशास्तिकायप्रदेशा अनन्ता द्रष्टव्याः, अलोकस्यानन्तत्वात्, दशमश्चाद्धाकालः, अस्य च वर्तमानसमयरूपस्यैव परमार्थसत्त्वाद्देशकल्पनाविरहः । तथा स्कन्धा देशाः प्रदेशाः परमाणवश्चेति चतुर्विधा रूप्यजीवाः, तत्र स्कन्दन्ति-शुष्यन्ति धीयन्ते च-पुष्यन्ति विचटनेन संघातेन चेति स्कन्धाःअनन्तानन्तपरमाणुप्रचयरूपा मांसचक्षुाह्याः कुम्भस्तम्भादयस्तदग्राह्या अचित्तमहास्कन्धादयोऽपि, पृषोदरादित्वाच्च रूपनिष्पत्तिः, अत्र बहुवचनं पुद्गलस्कन्धानामानन्त्यख्यापनार्थम्, देशाः-स्कन्धानामेव स्कन्धत्वपरिणाममजहतां बुद्धिपरिकल्पिता व्यादिप्रदेशात्मका विभागाः, अत्रापि बहुवचनमनन्तप्रादेशिकेषु तथाविधेषु स्कन्धेषु देशानन्तत्वसंभावनार्थम्, प्रदेशास्तु स्कन्धानां स्कन्धत्वपरिणामपरिणतानां बुद्धिपरिकल्पिताः प्रकृष्टा देशा निविभागा भागा इत्यर्थः, अत्रापि बहुवचनं प्रदेशानन्तत्वसंभावनार्थम्, परमाश्च तेऽणवश्च परमाणवो निर्विभागद्रव्यरूपाः । ननु प्रदेशपरमाण्वोः कः प्रतिविशेष: ?, उभयोरपि निविभागरूपत्वात्, उच्यते, स्कन्धप्रतिबद्धा निविभागाः प्रदेशाः, ये तु स्कन्धत्वपरिणामरहिता विशकलिता एकाकिन एवास्मिन् लोके वर्तन्ते ते परमाणवः, तदेवमजीवा जीवव्यतिरिक्ताश्चतुर्दशविधा भवन्ति ।।१३०१ ।।
चक्रे० : मूलभेदैः पुनरमी कति स्युरित्याहुः - देव० : एवमेते धर्मास्तिकायादीनां देशादिभेदैश्चतुर्दशधामौलभेदैः पुनरमी कति स्युरित्याह -
धम्माधम्मापुग्गल नह कालो पंच हुंति अजीवा।
चलणसहावो धम्मो थिरसंठाणो य अधम्मो।।२३७।। चक्रे० : पूर्वार्द्ध सुगमम्, नवरं पुद्गलं विना चत्वारोऽम्यमूर्ती निष्क्रियाश्च । धर्माऽधर्मो चैकजीवप्रदेशप्रमिताऽसङ्ख्यप्रदेशौ लोकव्यापिनौ । आकाशमनन्तप्रदेश लोकाऽलोकव्यापि । पुद्गलाः पुनरनन्ता लोकवर्तिन एव । कालस्तु तत्त्वतो वर्तमानरूप एव, सूर्यगतिकृतस्त व्यावहारिक: समयावलिकामुहूर्त्तादिर्मनुष्यक्षेत्र एव । पश्चार्द्धनैतल्लक्षणम्, चलनस्वभावो
१. होइ अधम्मो P.K