________________
၃၃၃
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
इत्यर्थः । तथाहि - धर्मास्तिकायो धर्मास्तिकायदेशो धर्मास्तिकायप्रदेशश्च, एवमुत्तरत्रापि । एवमेतेन च तथैव तेनैवाजीवत्वप्रकारेणाद्धा च कालोऽयं त्वेकविध एव वर्तमानसमयलक्षणो ये पुनरतीतानागतसमयास्तेषां विनष्टानुत्पन्नत्वेनासत्त्वाद्, आवलिकादयस्तु पूर्वसमयनिरोधेनैवोत्तरसमयसद्भाव इति तत्त्वतः समुदयसमुत्पाद्यसम्भवेन व्यवहारार्थमेव कल्पिताः । तथा स्कन्दन्ति शुष्यन्ति धीयन्ते च पोष्यन्ते च पुद्गलानां विचटनेन चटनेन चेति स्कन्धाः संहतिविशेषभाजः पुद्गलाः । दिश्यन्ते प्रदेशापेक्षयाऽसमानपरिणतिरूपत्वेऽपि देशापेक्षा समानपरिणतिमाश्रित्य विशिष्टरुपतयोपदय॑न्त इति देशाः स्कन्धभागाः, प्रकर्षेण सौक्ष्म्यातिशयलक्षणेन दिश्यन्त इति प्रदेशाः । स्कन्धानामेव निरंशाभागाः परमास्तदन्यसूक्ष्मतरासम्भवात्, प्रकर्षवन्तस्ते च तेऽणवश्च परमाणवः । स्कन्धरूपत्वापरिणतनिर्विभागद्रव्यरूपाः, एवमजीवाश्चतुर्दशधा भवन्तीति गाथार्थः ।।२३६।।।
* नवतत्त्वप्रकरणे-६* धम्माधम्मागासा तियतियभेया तहेव अद्धा य ।
खंधा देसपएसा परमाणु अजीव चउदसहा।। धर्मश्चाधर्मश्चाकाशश्च धर्माधर्माकाशास्ते कथम्भूताः ? त्रिकं त्रिकं भेदानां येषां ते त्रिकत्रिकभेदाः । अयमत्र भावार्थ:-सूचनात्सूत्रमितिन्यायाद्धर्मादिशब्दैर्धास्तिकायादयोऽभिगृह्यन्ते ते च त्रिकत्रिकभेदास्ततश्च धर्मास्तिकायो धर्मास्तिकायदेशो धर्मास्तिकायप्रदेशः, एवमधर्मास्तिकायाकाशास्तिकाययोरपि वाच्यम् । इत्थं प्रत्येकं त्रिभेदतेति । एते च सङ्कलिता नव, तथैवाद्धा चैवशब्दस्य भिन्नक्रमत्वात्, तथाद्धैव च काल एव च कोऽर्थः ? न केवलं धर्मादयो नवाऽजीवास्तथा काल एव चैवकारेण कालस्यैकरूपता नियम्यते कालद्रव्यमेकमेवेत्यर्थः। स्कन्धा द्विप्रदेशिकादयः, देशाश्च प्रदेशाश्च देशप्रदेशास्तत्र देशाः स्कन्धानामेव सविभागाः, प्रदेशाश्च निर्विभागभागाः, परमाणवः स्कन्धपरिणामरहिताः, पुद्गला एते चत्वारः पूर्वैर्दशभिः सह चतुर्दशेत्यत एवाह-अजीवाश्चतुर्दशधेति भावितार्थमेव । इति सूत्रगाथार्थः ।।६।।
* प्रवचनसारोद्धारे-१३०१ * इदानीं 'अजीव चउदसगो'त्ति त्रयोविंशत्युत्तरद्विशततमं द्वारमाह -
धम्माऽधम्माऽऽगासा तियतियभेया तहेव अद्धा य।
खंधा देसपएसा परमाणु अजीव चउदसहा ।। इहाजीवा द्विविधाः-रूपिणोऽरूपिणश्च, रूपमेषामस्तीति रूपिणः, रूपग्रहणं गन्धादीनामुपलक्षणम्, १. समुदयमित्याद्यसम्भवेन T,B,C २. चीयन्ते T,B.C