________________
५-तत्त्वतत्त्वम् गा-२३६
स्थापनीयपरिहारविशुद्धिकसूक्ष्मसंपराययथाख्यातभेदात् संयमः पञ्चधा, तत्प्रतिपक्षत्वाच्च देशसंयमोऽसंयमश्च गृह्यते, एवं सप्त, चक्षुरचक्षुरवधिकेवलभेदाञ्चत्वारि दर्शनानि, कृष्णा नीला कापोती तैजसी पद्मा शुक्ला चेति षड् लेश्याः, भव्यस्तत्प्रतिपक्षत्वेन चाभव्य इति द्वयं, क्षायोपशमिकक्षायिकौपशमिकभेदात् सम्यक्त्वं त्रिधा, सम्यक्त्वग्रहणेन च तत्प्रतिपक्षभूतानि मिश्रसास्वादनमिथ्यात्वान्यपि गृह्यन्त एवं षट्, संज्ञी तत्प्रतिपक्षश्चासंज्ञीति द्वयम्, आहारकस्तत्प्रतिपक्षोऽनाहारक इति द्वयम्, सर्वमीलने च द्वाषष्टिरिति ।।१३०३ ।।
चक्रे० : उक्तं सप्रपञ्चं जीवतत्त्वम्, सम्प्रत्यजीवतत्त्वमाहुः - देव० : सप्रपञ्चं जीवतत्त्वमभिहितम्, सम्प्रत्यजीवतत्त्वस्यावसरस्तत्र जीवतत्त्वे जीवचतुर्दशक उक्त इह त्वजीवचतुर्दशकमाह -
धम्माधम्मागासा तियतियभेया तहेव अद्धा य ।
खंधा देसपएसा परमाणु अजीव चउदसहा ।।२३६।। चक्रे० : धर्माधर्माकाशानि धर्मास्तिकायाऽधर्मास्तिकायाऽऽकाशास्तिकायाः । धारयति गतिपरिणताञ्जीवपुद्गलांस्तत्स्वभावत्व इति धर्मः, अस्तयः प्रदेशास्तेषां कायः सङ्घातोऽस्तिकायो धर्मश्चासावस्तिकायश्च धर्मास्तिकायः । अधर्मास्तिकायस्तद्विपरीतः, आकाशास्तिकायः प्रतीतः । एते त्रयोपि त्रित्रिभेदाः । यथा धर्मास्तिकायो धर्मास्तिकायदेशो धर्मास्तिकायप्रदेश इति । एवमन्यावपि । तदेवमेते नव । तथैवाऽद्धा च काल: स चैकविध एव वर्तमानसमयलक्षणोऽतीतानागतयोविनष्टाऽनुत्पन्नत्वेनाऽसत्त्वात् । स्कन्धाः संहतिविशेषभाजः पुद्गलाः, देशाः स्कन्धभागाः, प्रदेशाः स्कन्धानामेव सूक्ष्मतमभागाः, परमाणवो निरंशाः स्कन्धरूपत्वाऽपरिणताः । एवमजीवाश्चतुर्दशधा।।२३६।।
देव० : पदेऽपि पदसमुदायावगमाद्धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायाः पुंस्त्वं च प्राकृत्वात्। तत्र धारयति गतिपरिणताञ्जीवपुद्गलांस्तत्स्वभाव इति धर्मः । अस्तयश्चेह प्रदेशास्तेषां चीयत इति कायः सङ्घातोऽस्तिकायः । ततो धर्मश्चासावस्तिकायश्चेति धर्मास्तिकायः सकलदेशप्रदेशानुगसमानपरिणतिमद्विशिष्टं द्रव्यम्, एवमुत्तरत्रापि । न धारयति गतिपरिणतावपि जीवपुद्गलांस्तत्स्वभावतायां नावस्थापयति स्थित्युपष्टम्भकत्वात्तस्येत्यधर्मः । आङिति मर्यादया स्वस्वभावापरित्यागरूपया काशन्ते स्वरूपेणैव प्रतिभासन्तेऽस्मिन् पदार्था इत्याकाशः । यदा त्वभिविधावाङ् तदा आङिति सर्वभावाभिव्याप्त्या काशत इत्याकाशः । एते किमित्याह- त्रयः - परिमाणमस्येति त्रिकस्ततो वीप्सायां द्विवचने त्रिकत्रिको भेदो येषां ते तथा, एकैकस्त्रिभेद १. स्वभावतायामिति A,B,C २. रूपतया T,B,C