SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३२० दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् द्विककार्मणाः पञ्च योगाः। मनोरहितवाग्योगे पर्याप्तापर्याप्तद्वित्रिचतुरिन्द्रियासंज्ञिनः ८ जीवाः, आद्यौ द्वौ गुणौ २, औदारिकद्विककार्मणाः सत्यामृषाभाषाः ४ स्वरूपा योगाः, आद्या अज्ञानद्वयदर्शनद्वयरूपास्तूपयोगाः । मनोयोगे पर्याप्तापर्याप्तसंज्ञिनौ जीवौ चरमवर्जास्त्रयोदश गुणाः कार्मणौदारिकमिश्रवर्जास्त्रयोदश योगा द्वादशोपयोगा इति, निश्चयमतेन चापर्याप्तस्यापि वाङ्मनोयोगौ लभ्येत इति तयोस्तदभिधानमनवद्यमिति । यथास्थानं तु योगेषु या मार्गणा सा व्यवहाराभिप्रायेणेति कृतं प्रसङ्गेनेति जीवतत्त्वम्।।२३५ ।। * पञ्चसंग्रह-२१ * गत्यादिस्थानोत्कीर्तनामाह - गइइंदिए य काए जोगे वेए कसायलेसासु य । संजमदंसणनाणे भव्वसन्निसम्मआहारे ।। गतीन्द्रिये च काये योगे वेदे कषायलेश्यासु च संयमदर्शनज्ञाने भव्यसंज्ञिसम्यगाहारे ‘सरूपाणामेकशेष एकविभक्तौ' इत्येकशेषसमासाद् द्वन्द्वैकत्वमित्येवंभूतलक्षणात् प्राकृतलक्षणानुसाराञ्चोत्तरत्रापि द्रष्टव्यानि पदानि । पदार्थस्तु गतिद्वारं चतुर्विधम्, इन्द्रियद्वारं पञ्चधा, कायद्वारं द्विधा, योगवेदद्वारे प्रत्येकं त्रिधा, कषायद्वारं चतुर्द्धा, लेश्याद्वारं षोढा, संयमद्वारं च पञ्चधैकधा वा, दर्शनद्वारं चतुर्द्धा, ज्ञानद्वारमष्टधा, भव्यसंज्ञिसम्यग्दृष्ट्याहारकद्वाराणि सविपक्षाणि, तेषु जीवगुणस्थानानि मन्तव्यानीति वाक्यशेष इति गाथार्थः ।।२१।। * प्रवचनसारोद्धारे-१३०३ * इदानीं 'मग्गणचउदसगो'त्ति पञ्चविंशत्युत्तरद्विशततमं द्वारमाह - गइइंदिए य काये जोए वेए कसायनाणेसुं । संजम-दंसण-लेसा भव-सम्मे-सन्नि-आहारे।। ___ गतिरिन्द्रियाणि काया योगा वेदा कषाया ज्ञानानि संयमो दर्शनानि लेश्या भव्याः सम्यक्त्वं संज्याहारक इति मूलभेदापेक्षया चतुर्दश मार्गणास्थानानि, मार्गणं-जीवादीनां पदार्थानामन्वेषणं मार्गणा तस्याः स्थानानि-आश्रया मार्गणास्थानानि, उत्तरभेदापेक्षया तु द्वाषष्टिः, तथाहि-सुरनरतिर्यग्नारकगतिभेदाद् गतिश्चतुर्धा, स्पर्शनरसनघ्राणचक्षुःश्रोत्रेन्द्रियभेदात् पञ्चेन्द्रियाणि, पृथिव्यप्तेजोवायुवनस्पतित्रसकायभेदात् कायः षोढा, मनोवचनकायाख्या योगास्त्रयः, स्त्रीपुंनपुंसकस्वरूपा वेदास्त्रयः, क्रोधमानमायालोभलक्षणाः कषायाश्चत्वारः, मतिश्रुतावधिमनःपर्यायकेवलभेदात् पञ्च ज्ञानानि, ज्ञानग्रहणेन चाज्ञानमपि तत्प्रतिपक्षभूतमुपलक्ष्यते, तञ्च त्रिधा-मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानभेदात्, एवमष्टौ, सामायिकच्छेदोप
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy