________________
५-तत्त्वतत्त्वम् गा-२३५
३१९ आहारकेषु कार्मणवर्जाश्चतुर्दश [सर्वे १५], अनाहारकेषु कार्मण एवेति १४। गत्यादिषु योगमार्गणा कृता ।
अथोपयोगा गवेष्यन्ते-तत्र गतिद्वारे सुरनारकतिर्यग्गतिषु मनःपर्यवकेवलद्विकरहिता नव ९, इह यत्र क्वचिज्ज्ञानदर्शने विवक्षिष्येते तत्र द्विकमित्यभिधास्यते मनुजगतौ द्वादशापि १२ । इन्द्रियद्वार एकद्वित्रीन्द्रियेष्वचक्षुर्दर्शनमतिश्रुताज्ञाने च ३, चतुरिन्द्रियेषु चक्षुर्दर्शनं चतुर्थम् ४, पञ्चेन्द्रियेषु सर्वेऽपि १२ । कायद्वारे स्थावरकायेष्वेकेन्द्रियेष्विव ३, त्रसकाये सर्वेऽपि १२। योगद्वारे सामान्येन सर्वेऽपि १२। एवं वेदद्वारेऽपि १२। कषायद्वारे चतुर्ध्वपि केवलद्विकहीना दश १०। ज्ञानद्वारे मतिश्रुतावधिमनःपर्यवेष्वाद्यानि चत्वारि ज्ञानानि त्रीणि च दर्शनानि ७, केवले केवलद्विकम् २, अज्ञानत्रिके त्वज्ञानत्रिकमाद्यदर्शनद्वयं च ५।
ननु पूर्वं विभङ्गिनोऽप्यवधिदर्शनं प्रतिष्ठितम्, तच्चेहाज्ञानत्रिके प्रथमदर्शनद्वयं प्रतिपादयतः कथं न विरुद्धयते ? सत्यम्, तत्सूत्राशयेन, एतत्पुनः कर्मग्रन्थाभिप्रायेणेति, अत्र च विभङ्गिनः सामान्याकारग्रहणमचक्षुर्दर्शनेनेति ।
संयमद्वारे सामायिकादिषु चतुर्खाद्यचतुर्ज्ञानदर्शनत्रिकाणि ७, यथाख्याते तान्येव केवलद्विकयुतानि ९, देशसंयमे प्रथमज्ञानत्रयदर्शनत्रये ६, असंयमे मनःपर्यवकेवलद्विकवर्जा नव ९। दर्शनद्वारे चक्षुरचक्षुर्दर्शनयोः केवलद्विकरहिता दश १०, अवधिदर्शने प्रथमचतुर्ज्ञानदर्शनत्रिकाणि ७, केवलदर्शने केवलद्विकम् २। लेश्याद्वारे पञ्चसु केवलद्विकरहिता दश १०, शुक्लायां तु सर्वेऽपि १२। भव्यद्वारे भव्येषु सर्वेऽपि १२, अभव्येष्वज्ञानत्रिकमाद्यदर्शनद्वयं च ५। सम्यक्त्वद्वारे क्षायोपशमिकौपशमिकयोराद्यचतुर्ज्ञानदर्शनत्रिकाणि ७, क्षायिके तान्येव सकेवलद्विकानि ९, सास्वादनमिथ्यात्वयोरज्ञानत्रयदर्शनद्वयलक्षणाः पञ्च ५, मिश्रे ज्ञानत्रयदर्शनत्रयरूपाः षट् ६, केवलमज्ञानमिश्राः । संज्ञिद्वारे संज्ञिनि सर्वे, असंज्ञिन्याद्यमज्ञानद्वयं दर्शनद्वयं च ४, आहारकद्वार आहारकेषु सर्वे, अनाहारकेषु मनःपर्यवचक्षुर्दर्शनरहिता दशेति १० ।
इह च योगद्वारे वाग्योगः कायं विना, मनोयोगश्च वाक्कायव्यतिरेकेण न सम्भवतीति तयोस्तदनुगतयोरेव जीवादिमार्गणा, कायस्तु वाङ्मनोभ्याम्, वाक् तु मनसा विनापि सम्भवतीति निश्चयनयमतेन तयोस्तद्विनाकृतयोर्जीवादयो माय॑न्ते । तत्र काययोग आद्यानि चत्वारि जीवस्थानानि, द्वे गुणस्थानेऽज्ञानेऽचक्षुर्दर्शनं चेति त्रय उपयोगाः, औदारिकद्विकवैक्रिय