SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३१८ दर्शनशद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् संयमद्वारे सामायिकच्छेदोपस्थापनीययोः प्रमत्तादीनि चत्वारि ४, परिहारविशुद्धिके प्रमत्ताप्रमत्ते २, देशविरतसूक्ष्मसम्पराययोः स्वं स्वम् १, यथाख्याते चरमाण्यसंयमे त्वाद्यानि चत्वारि ४। दर्शनद्वारे चक्षुरचक्षुर्दर्शनयोराद्यानि द्वादश १२, अवधिदर्शने त्वविरताद्यानि नव ९, केवलदर्शने चरमद्विकम् २, लेश्याद्वारे कृष्णनीलकापोतलेश्यास्वाद्यानि षट् ६, तैजसीपद्मयोः सप्त ७, शुक्लायां त्रयोदश १३, भव्यद्वारे भव्येषु सर्वाणि १४, अभव्येषु प्रथममेव १ । सम्यक्त्वद्वारे क्षायोपशमिके चत्वार्यविरतादीनि ४, क्षायिके त्वेकादश ११, औपशमिके पुनरष्टौ ८, सास्वादनमिश्रमिथ्यात्वेषु स्वं स्वं १ । संज्ञिद्वारे संज्ञिषु चतुर्दश १४, संज्ञित्वं च सयोगिनो द्रव्यमनःप्रतीत्यायोगिनस्तु पूर्वावस्थामसंज्ञिषु मिथ्यात्वसास्वादनौ २ । आहारकद्वार आहारकेष्वाद्यानि त्रयोदश १३, अनाहारकेषु मिथ्यात्वसास्वादनाविरतसयोग्ययोग्याख्यानि पञ्चेति ५ । मागितानि गुणस्थानकानि । सम्प्रति योगानामवसरस्तत्र तावद्येषु पदेषु पञ्चदशापि येषु च त्रयोदशयोगाः सम्भवन्ति तानि लाघवार्थं कथ्यन्ते, तथाहि- मनुजगति-१ पञ्चेन्द्रिय-२ त्रसकाय-३ काययोग-४ पुं-५ नपुंसकवेद-६ कषाय-१० मति-११ श्रुता-१२ वध्य-१३ चक्षु-१४ रवधिदर्शन-१५ लेश्याषट्क-२१ भव्य-२२ क्षायोपशमिक-२३ क्षायिकसम्यक्त्व-२४ संज्ञि-२५ लक्षणपञ्चविंशतिस्थानेषु पञ्चदशापि । तिर्यग्गति-१ स्त्रीवेदा-२ ज्ञानत्रिका-५ संयमा-६ भव्यौ-७ पशमिकसम्यक्त्व-८ सास्वादन-९ मिथ्यात्वे-१० ष्वाहारकतन्मिश्रवर्जितास्त्रयोदश, मनो-११ वाग्योग-१२ मनःपर्यव-१३ सामायिक१४ च्छेदोपस्थापनीय-१५ चक्षुर्दर्शनेषु-१६ त्वौदारिकमिश्रकार्मणवर्जितात्रयोदशेति । सम्प्रत्यवशिष्टेषु कथ्यते । तत्र गतिद्वारे सुरनारकगत्योरौदारिकद्विकश्चाहारकद्विकवर्जिता एकादश एकादश ११ ! इन्द्रियद्वार एकेन्द्रियेष्वौदारिकद्विकवैक्रियद्विककार्मणा: ५, विकलेष्वौदारिकद्विककार्मणासत्यामृषाभाषाः ४ । कायद्वारे वायुकाय औदारिकद्विकवैक्रियद्विककार्मणाः ५ । शेषस्थावरकाये त एव वैक्रियद्विकवर्जाः ३। योग, वेद, कषाय द्वाराण्युक्तार्थानि । ज्ञानद्वारे केवलज्ञाने सत्या असत्यामृषावाग २ मनः २ कार्मणौदारिकद्विकानि ७। संयमद्वारे परिहारविशुद्धिकसूक्ष्मसम्पराययोर्वाक्चतुष्टयमनश्चतुष्टयौदारिकाः ९, यथाख्याते त एव कार्मणौदारिकमिश्रसहिताः ११, देशसंयमे तु पूर्वे नव वैक्रियद्विकान्विताः ११ । दर्शनद्वारे केवलदर्शने केवलज्ञानोक्ताः सप्त ७। लेश्या भव्यद्वारे तूक्तार्थे । सम्यक्त्वद्वारे मिश्रदृष्टौ वाक्चतुष्टयमनश्चतुष्टयौदारिकवैक्रियाः १० । संज्ञिद्वारेऽसंज्ञिन्यौदारिकद्विकवैक्रियद्विककार्मणासत्यामृषाभाषाः ६ । आहारकद्वार
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy