________________
५-तत्त्वतत्त्वम् गा-२३३, २३४
30९
९-अनिवृत्तियुगपदेतत्प्रतिपन्नानां मिथो नाऽध्यवसायव्यावृत्तिः प्रतिसमयमनन्तगुणविशुद्धककाऽध्यवसायस्थानत्वादस्य । सूक्ष्मसम्परायाऽपेक्षया बादरसम्परायो यस्य स बादरसम्परायोऽनिवृत्तिश्चासौ बादरसम्परायश्चानिवृत्तिबादरसम्परायः ।
१०-'सुहुमे' त्ति सूक्ष्मसम्परायः समन्तात् पराऽयन्ति पर्यटन्ति जीवाः संसारमेभिरिति सम्परायाः कषायाः, इह शेषाणामनुदयात् सूक्ष्मः किट्टीभूतो लोभाख्यः सम्परायो यस्य स तथा। ११-उपशान्तः सन्नेव करणविशेषाद् भस्मच्छन्नाग्निवदुदयायोग्यीभूतो मोहो यस्य स उपशान्तमोहः । १२-क्षीणमोहः क्षपकश्रेणे: पारगतः केवलोत्पत्तेराग्वर्ती भवति। १३-'सजोगि'त्ति सयोगी केवली कायवाङ्मनोयोगवान् । कायेन क्रामति । वाचा देशनां कुरुते । ‘अमनस्काः केवलिनः' [ ] इति वचनान्न च केवलिनः सर्वथा मनोयोगो नास्ति, यदाह
दव्वमणोजोगेण मणनाणीणं अणुत्तरसुराण ।
संसयवुच्छित्तिं केवलेण नाऊण सय कुणइ ।। [ ] १४-अयोगी च योगनिरोधादयोगिकेवली। गुणिरूपतया चैषामभिधानं गुणगुणिनोरभेदोपचारात् । एतानि गुणानां ज्ञानादीनां स्थानानि गुणस्थानानि चतुर्दश भवन्तीत्यनुक्तमपि प्रस्तावाद् ज्ञेयम् । कालमानं चैषाम् -
मिच्छत्तमभव्वाणं अणाइयमणंतयं मुणेयव्वं । भव्वाणं तु अणाई सपज्जवसियं च तं होइ ।। छावलियं सासाणं समहिअ तेत्तीससायर चउत्थं । देसूणपुव्वकोडी पंचमगं तेरसं च पुढो ।। लहु पंचक्खर चरिमं तइयं छट्ठाइ बारसं जाव ।
इय अट्ठगुणट्ठाणा अंतमुहुत्ता य पत्तेयं ।। [प्रव.सारो. १३०७, ८, ९] अयमन्यश्च विशेषः -
मिच्छे सासाणे वा अविरयसम्मंमि अहव गहियंमि । जंति जिया परलोए सेसिक्कारस गुणे मोत्तुं ।। [प्रव.सारो० १३०६]
इति गाथार्थः । ।२३३, २३४ ।। १. 'सुहमित्ति