________________
३१०
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
देव० : १-तिष्ठन्ति यथासम्भवमविशुद्धविशुद्धरूपतया गुणा एष्विति स्थानान्यवस्थाविशेषा गुणानां ज्ञानादीनां स्थानानि गुणस्थानानि चतुर्दश भवन्तीत्यनुक्तमपि प्रस्तावाद् ज्ञेयम्, तत्र मिथ्या वक्ष्यमाणमिथ्यात्वोदयाद्विपर्यस्ता दृष्टिर्यस्य स तथा गुणस्थानत्वं चास्य भद्रकत्वाद्यपेक्षया।
२-आ ईषत्स्वादनं तत्त्वश्रद्धानरसानुभवः सह तेन वर्त्तत इति सास्वादनोऽनन्तानुबन्ध्युदयाद वक्ष्यमाणौपशमिकसम्यक्त्वात्प्रच्यवमानोऽद्याप्यनुदितमिथ्यात्वश्चेत्यर्थ एकारः सर्वत्र प्राकृतत्वात्।
३-तथा सम्यक्त्वमिथ्या च सम्यग्मिथ्या, सम्यग्मिथ्या दृष्टिर्यस्य स तथा वक्ष्यमाणार्धविशुद्धपुञ्जवेदनान्मिश्रदर्शन इत्यर्थः सर्वाण्यप्यव्ययानि समुच्चयार्थानि ।
४-न विरतोऽप्रत्याख्यानकषायोदयात् सावद्ययोगेभ्य इत्यविरतः स चासौ वक्ष्यमाणसम्यक्त्वयोगात्सम्यग्दृष्टिश्च स तथा। ५-विरतश्चासौ देशतोऽविरतश्च सर्वतः प्रत्याख्यानकषायोदयाद्विरताविरतः। ६-प्रमत्त इति भीमादिन्यायात्प्रमत्तसंयतः, प्रमाद्यतीति प्रमत्तोऽज्ञानसंशयविपर्ययरागद्वेषस्मृतिभ्रंशयोगदुष्प्रणिधानधर्मानादराणां मध्यादन्यतमप्रमादवान् स चासौ संयतश्च सर्वविरतः।
७-ततश्चाप्रमत्तसंयतो वर्णितप्रमादरहितः।। ८-नियट्टि'त्ति निवृत्तिबादरस्तत्र निवृत्तिमन्तो व्यावृत्ता अध्यवसायतः परस्परविलक्षणा इत्यर्थो बादराबादरकषाया जन्तवो यत्र स तथा । इयमिह भावना- किलैतस्मिन्नाद्यसमय एवासङ्ख्यलोकप्रदेशतुल्यानि जघन्यादीन्युत्कर्षान्तान्यध्यवसायस्थानान्युत्तरोत्तरेषु च समयेष्वधिकाधिकानि, तेषु च जघन्यादुत्कर्षं प्राक्तनोत्कर्षाच्चोत्तरजघन्यमनन्तगुणविशुद्धम्, ततश्च युगपदेतद्गुणस्थानं प्रतिपन्नानां जन्तूनां परस्परमध्यवसायतो वैलक्षण्यमित्यर्थ इह च कर्मणां स्थितिघातरसघातादीनपूर्वान् कुरुत इत्यपूर्वकरणोऽप्ययमुच्यते तत्र पूर्वगुणस्थानेषु यावत्स्थितिखण्डकं रसखण्डकं च हतवांस्ततोऽत्र बृहत्तरं हन्ति, तथा विशुद्धिवशादपवर्तनाकरणेनोपरितनस्थितेरवतार्योदयक्षणानन्तरमन्तर्मुहूर्त्तकालक्षपणीयानां प्रतिसमयमसङ्ख्यगुणवृद्ध्या दलिकानां विरचनं गुणश्रेणिस्तां च प्राक्कालतो गुर्वीमपवर्तितस्वल्पदलिकां च रचितवान्, इह तु कालतो लघ्वीमपवर्तितभूरिदलिकां च रचयति । तथा शुभप्रकृतिदलिकानां च रचयति तथा शुभप्रकृतिष्वशुभप्रकृतिदलिकानां विशुद्धिवशादनुसमयमसङ्ख्यगुणवृद्धया नयनं गुणसङ्क्रमस्तमप्यत्रापूर्वं करोति स्थितिबन्धं च पूर्वं दीर्घ कृतवानिह तु ह्रस्वमिति, अयं चोपशमक्षययोग्यकर्मदलिककरणादुपशमकक्षपकश्च भण्यते। १. संयतस्ततः T,B.C