________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
शुभाध्यवसायेन ग्रन्थिभेदं विधाय, अनिवृत्तिकरणाऽऽह्वशुभाध्यवसायेन मिथ्यात्वमोहनीयस्य कर्मणः स्थितेरन्तर्मुहूर्त्तप्रमाणमन्तकरणं करोति । ततोऽन्तर्मुहूर्तेनाऽधस्तनीं स्थितिं क्षपयित्वा, अन्तरकरणप्रथमसमय एवोपशमिकसम्यक्त्वमाप्नोति । तत्र चाऽऽन्तरमौहूर्तिकोपशमकाले जघन्यतः समयशेषे, उत्कर्षतः षडावलिकाशेषे, कस्यचिदनन्तानुबन्ध्युदयात्, उपशमश्रेणिपतितस्य च सासादनसम्यग्दृष्टिता भवति । तदनन्तरमवश्यमुपरितनमिथ्यात्वस्थित्युदयान्मिथ्यादृष्टिता ।
३-सम्यग्मिथ्यादृष्टिमिश्रः स चाऽन्तरकरणकालप्राप्तमौपशमिकसम्यक्त्वमौषधविशेष
३०८
कल्पमासाद्य मदनकोद्रवस्थानीयमुपरितनमिथ्यात्वमोहनीयमशुद्धार्द्धविशुद्धविशुद्धत्वेन त्रिपुञ्जी - कृत्याऽर्द्धविशुद्धपुञ्जवेदनकालेऽन्तर्मुहूर्तं भवति । तत ऊर्ध्वमवश्यं सम्यक्त्वं मिथ्यात्वं
वाऽऽयाति ।
४- -अविरतसम्यग्दृष्टिरप्रत्याख्यानकषायोदयादगृहीताऽणुव्रतादिः केवलसम्यक्त्ववान्। ५ - विरताविरतो देशे स्थूलप्राणिवधादौ विरतः सर्वस्मिंश्चाऽविरतः प्रत्याख्यानकषायोदयात्। ६-प्रमत्त इति प्रमत्तसंयतः कषायदुष्प्रणिधानधर्माऽनादरादिप्रमादवान्।
७- अप्रमत्तस्तद्विपरीतः ।
८ - 'नियट्टि' त्तिनिवृत्तिरष्टमगुणस्थानकम् । इहाद्यसमय एवाऽसङ्ख्यलोकप्रदेशतुल्यानि जघन्यादीन्युत्कृष्टान्तान्यऽध्यवसायस्थानानि । उत्तरोत्तरेषु समयेष्वधिकाऽधिक । तेषु च जघन्यादुत्कृष्टं प्राक्तनोत्कृष्टाच्चोत्तरजघन्यमनन्तगुणविशुद्धम् । ततश्च युगपदेतद्गुणस्थानं प्रतिपन्नानां जन्तूनामन्योन्यस्य सम्बन्धिनोऽध्यवसायस्थानस्य निवृत्तिर्भिन्नाऽध्यवसायस्थानवर्त्तित्वमित्यर्थः । इह च कर्मणां स्थितिघातरसघातादीनपूर्वान् कुरुत इत्यपूर्वकरणोऽप्ययमुच्यते । तत्र पूर्वगुणस्थानेषु यावत् स्थितिखण्डकं रसखण्डकं च हतवांस्ततोऽत्र बृहत्तरं हन्ति । तथा विशुद्धिवशादपवर्तनाकरणेनोपरितनस्थितेरवतार्योदयक्षणानन्तरमन्तर्मुहूर्तकालक्षपणीयानां प्रतिसमयमसङ्ख्यगुणवृद्ध्या दलिकानां विरचनं गुणश्रेणिः । तां च प्राक्कालतो गुर्व्वीपवर्त्तितस्वल्पदलिकां रचितवान् । इह तु कालतो लघ्वीमपवर्त्तितभूरिदलिकां च रचयति । तथा शुभप्रकृतिष्वशुभप्रकृतिदलिकानां विशुद्धिवशादनुसमयमसङ्ख्यगुणवृद्ध्या नयनं गुणसंक्रमस्तमप्यत्राऽपूर्वं करोति स्थितिबन्धं च पूर्वं दीर्घं कृतवानिह तु हस्वमिति । अयं चोपशमक्षययोग्यकर्मदलिककरणादुपशमकः क्षपकश्च भण्यते ।