________________
५- तत्त्वतत्त्वम् गा- २३३, २३४
* प्रवचनसारोद्धारे- १३०४ *
इदानीं 'उवओग बारस'त्ति षड्विंशत्युत्तरद्विशततमं द्वारमाह
-
मइ सुय ओही मण केवलाणि गइ सुयअन्नाण विब्भंगा ।
अचक्खु चक्खु अवही केवलचउदंसणुवउगा ।।
"
उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यते जीव एभिरित्युपयोगा बोधरूपा जीवस्य स्वतत्त्वभूता व्यापाराः, ते च द्विधा - साकारा अनाकाराश्च तत्र आकार::- प्रतिवस्तु प्रतिनियतो ग्रहणपरिणामरूपो विशेष: 'आगारो उ विसेसो' इति वचनात् सह आकारेण वर्तन्त इति साकाराः, सामान्यविशेषात्मके वस्तुनि विशेषांशग्राहिण इत्यर्थः, तद्विपरीतास्त्वनाकाराः, सामान्यांशग्राहिण इत्यर्थः तत्र मतिश्रुतावधिमन: पर्यायकेवलाख्यानि पञ्च ज्ञानानि, मत्यज्ञानश्रुताज्ञानविभङ्गरूपाणि त्रीणि चाज्ञानानीत्यष्टौ साकाराः, अचक्षुश्चक्षुरवधिकेवलाख्यानि चत्वारि दर्शनान्यनाकाराः, तदेवं मिलिता द्वादश उपयोगाः, तत्र ज्ञानानि दर्शनानि च प्रागेवोक्तानि तथा मतिश्रुतावधिज्ञानान्येव नञः कुत्सार्थत्वान्मिथ्यात्वकलुषिततया यदा कुत्सितानि भवन्ति तदा यथाक्रमं मत्यज्ञानश्रुताज्ञानविभङ्गव्यपदेशभाञ्जि भवन्ति, 'विभंग'त्ति विपरीतो भङ्गः परिच्छित्तिप्रकारो यस्मिन् तद्विभङ्गमिति । । १३०४ ।।
चक्रे० : सम्प्रति जीवस्योत्तरोत्तरविशुद्धिरूपाणि गुणस्थानान्याहुः देव० : सम्प्रति जीवस्यैवोत्तरोत्तरविशुद्धिरूपाणि गुणस्थानान्याह मिच्छद्दिट्ठी सासायणे य तह सम्ममिच्छदिट्ठी य । अविरयसम्मद्दिट्ठी विरयाविरए पत्ते य।। २३३ ।। तत्तो य अप्पमत्ते नियट्टिअनियट्टिबायरे सहमे । उवसंतखीणमोहे होइ सजोगी अजोगी य ।। २३४।।
३०७
-
चक्रे० : १ - मिथ्याऽतथ्योऽर्हद्धर्म इति दृष्टिर्दर्शनं यस्य स मिथ्यादृष्टिः, तर्हि कथमस्य गुणस्थानतेत्युच्यते, कस्यापि वचनादेर्जिनमतानुसारित्वाद् गुणस्थानता, यद्वा सूत्रोक्ताक्षरैकारोचनेऽपि मिथ्यादृष्टिः शेषरोचनात्तु गुणस्थानता । एकेन्द्रियादीनां तु चैतन्यमात्रगुणाऽपेक्षया ।
२-आयं सादयतीत्यासादनम्, अनन्ताऽनुबन्धिकषायवेदनम्, नैरुक्तो यलोपः । सहासादनेन वर्त्तत इति सास्वादनः स चैवं भवति कश्चिद् गम्भीरभवोदधिवर्तिजन्तुरनाभोगनिर्वर्त्तितेन यथाप्रवृत्तिकरणसंज्ञेन शुभाध्यवसायेन सम्पादितसमस्तकर्मान्तःकोटाकोटिस्थितिरपूर्वकरणाख्य१. विरयाविरई A, T,C २. सुहमे PK, T, C, Z