________________
३०६
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
देव० : ज्ञायतेऽवबुध्यतेऽनेन वस्तुतत्त्वमिति ज्ञानम्, तच्च सम्यग्ज्ञानमेव पञ्च विकल्पा भेदा यस्य तत्तथा, भेदाश्चाभिनिबोधिकश्रुतावधिमनःपर्यवकेवलाख्यास्तत्राभिमुखो योग्यदेशावस्थितवस्त्वपेक्षया नियतः स्वस्वविषयपरिच्छेदकतया बोधोऽभिनिबोधः स एवाभिनिबोधिकमिन्द्रियानिन्द्रियप्रभवमर्थावग्रहादिभेदम् । श्रूयते तदिति श्रुतं शब्दमात्रं तच्च द्रव्यश्रुतमेव, यत्पुनः शब्दमाकर्णयतः स्वयं वा वदतः पुस्तकादिन्यस्तानि वाक्षराण्युपलभमानस्य शेषेन्द्रियगृहीतं वार्थं विकल्पयतोऽक्षरारूषितं विज्ञानमुपजायते तदिह भावश्रुतमक्षरानक्षरादि । अवधिर्मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरित्येवंरूपा, तदुपलक्षितं ज्ञानमप्यवधिदेवनारकाणां भवप्रत्ययः शेषाणां सविपक्षानुगामिकावस्थितहीयमानभेदात् षोढा । मन इति मनोद्रव्यपर्यायास्तान् परिसमन्तादवगच्छतीति मनःपर्यवमृजुविपुलभेदं मनुष्पक्षेत्रवतिसंज्ञिमनःपर्यायाणां ग्राहकम्, न तु तञ्चिन्तितबाह्यवस्तूनाम्, तेषामनुमानगम्यत्वात्, तथा च 'जाणइ बज्झे अनुमाणाउ'त्ति केवलमसाधारणमनन्तं वा सकलद्रव्यगुणपर्यायावभासकमिति तथा मिथ्यात्वोदयवतामसदध्यवसायात्मकानि ज्ञानान्यप्यज्ञानान्येव, तेषां त्रिकं मत्यज्ञानश्रुताज्ञानविभङ्गरूपं सर्वमिति सुब्लोपः प्राकृतत्वात् । सर्वं ज्ञानमज्ञानं च, सह आकारेण ग्राह्यार्थसारूप्यलक्षणेन वर्त्तत इति साकारं विशेषग्राहकमित्यर्थः । तथा चतुर्णा दर्शनानां समाहारश्चतुर्दर्शनं चक्षुर्दर्शनादि, तत्र चक्षुषा सामान्याकारस्य ग्रहणं चक्षुर्दर्शनम्, शेषेन्द्रियैर्मनसा चाऽचक्षुर्दर्शनम्, अवधिना त्ववधिदर्शनम्, केवलेन पुनः केवलदर्शनम्, न विद्यत आकारो ग्राह्यार्थसारूप्यं यस्य, सामान्याकारग्रहणादनाकारमिह च मनःपर्यवज्ञानं विशेषाकारग्राहकमेवेति, न तत्कृतो दर्शनभेदो यदाह -
विशेषानेव गृह्णानं क्षयोपशमपाटवात् ।
उत्पद्यते मनोज्ञानमतस्तत्र न दर्शनम् ।। [ ] यत्पुनर्मनःपर्यवज्ञानी क्वचित्सामान्याकारं गृह्णाति तदवधिदर्शनेनैव वेदितव्यं तथा विभङ्गिनो दर्शनमवधिज्ञानिना समानमेवेति न ज्ञानवत्तत्रापि भेदस्तथा च प्रज्ञप्तिः - ‘ओहिदसणअणगारोवउत्ताणं भंते किं नाणी अन्नाणी ? गोयमा ! नाणीवि अन्नाणीवि, जे नाणी ते अत्थेगइया तिन्नाणी अत्थेगइया चउनाणी जे अन्नाणी ते नियमा तिअन्नाणी'ति एवमुपयुज्यन्ते जीवस्य पदार्थग्रहणं प्रति साधनतां भजन्त इत्युपयोगा द्वादश भवन्तीति गाथार्थः ।।२३२।।