________________
५-तत्त्वतत्त्वम् गा-२३२
३०५
अत्र 'सव्वेसिं' इति सर्वेषामौदारिकादीनां शरीराणां कारणभूतं बीजभूतं कार्मणं शरीरमिति, न खल्वामूलसमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभूते कार्मणे वपुषि शेषशरीरप्रादुर्भावः, इदं च कर्मजं शरीरं जन्तोर्गत्यन्तरसंक्रान्तौ साधकतमं कारणम्, तथाहि-कर्मजेनैव वपुषा परिकरितो जन्तुर्मरणदेशमपहायोत्पत्तिदेशमभिसर्पति, ननु यदि कार्मणवपुःपरिकरितो गत्यन्तरं संक्रामति तर्हि स गच्छन्नागच्छन् वा कस्मान्न दृश्यते? उच्यते, कर्मपुद्गलानामतिसूक्ष्मतया चक्षुरादीन्द्रियागोचरत्वात्, तथा च परतीथिकैरप्युक्तम् -
अन्तरा भवदेहोऽपि सूक्ष्मत्वानोपलभ्यते । निष्क्रामन्वा प्रविशन्वा नाभावोऽनीक्षणादपि ।। तदेवं चतुर्धा मनोयोगश्चतुर्धा वाग्योगः सप्तधा च काययोग इति पञ्चदश योगाः । ननु तैजसमपि शरीरं विद्यते यद् भुक्ताहारपरिणमनहेतुर्यद्वशाञ्च विशिष्टतपोविशेषसमुत्थलब्धिविशेषस्य पुंसस्तेजोलेश्याविनिर्गमस्तत्किमिह नोक्तमिति ? उच्यते, सदा कार्मणेन सहाव्यभिचारितया तस्य तद्ग्रहणेनैव गृहीतत्वादिति ।।१३०५।।
चक्रे० : व्याख्याता प्राणादिद्वारगाथा । सम्प्रति जीवलक्षणभूतानुपयोगानाहुः - देव० : अथ जीवे लक्षयितव्ये किं लक्षणमिति जिज्ञासायां जीवलक्षणान्युपयोगानाह -
नाणं पंचवियप्पं अनाणतिगं च सव्वसागारं ।
चउदंसणमणगारं उवओगा बारस हवंति।।२३२।। चक्रे० : ज्ञानं पञ्चविकल्पं पञ्चभेदम् । १-तत्रेन्द्रियाऽनिन्द्रियप्रभवं मतिज्ञानम्, २-द्रव्यभावश्रुतोत्थं श्रुतज्ञानम्, ३-रूपिद्रव्यविषयमवधिज्ञानम्, ४-मनुष्यक्षेत्रवर्तिसंज्ञिमनःपर्यायग्राहकं मनःपर्यायज्ञानम्, ५-सर्वप्रकाशकं केवलमसहायं ज्ञानं केवलज्ञानम्, मिथ्यादृशां विपरीताऽर्थग्राहकाणि ज्ञानान्यप्यज्ञानान्येव तेषां त्रिकं १-मत्यज्ञानम्, २-श्रुताज्ञानम्, ३-विभङ्गरूपम्, सर्वं ज्ञानमज्ञानं च 'सागारं' ति आकारो व्यक्तिग्रहणपरिणामरूपो विशेषो वैशिष्ट्यम्, 'आगारो उ विसेसो' [विशेषा.भा.] इति वचनात्, तेन सह वर्तत इति साकारं विशेषग्राहकमित्यर्थः । चतुर्णां दर्शनानां समाहार श्चतुर्दर्शनं चक्षुर्दर्शनादि । १-तत्र चक्षुषा सामान्याऽऽकारस्य ग्रहणं चक्षुर्दर्शनम्, २-शेषेन्द्रियैर्मनसा चाचक्षुर्दर्शनम्, ३-अवधिनात्ववधिदर्शनम्, ४-केवलेन पुनः केवलदर्शनम्, न विद्यत आकारः प्रागुक्तरूपो यस्य तदनाकारं सामान्यस्यैव ग्रहणात् । मनःपर्यायज्ञानं तु विशेषग्राहकमेवेति न तत्कृतो दर्शनभेदः । एवमुपयुज्यन्ते जीवस्य पदार्थग्रहण इत्युपयोगा द्वादश भवन्ति।।२३२ ।।