SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३०४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् शादिमिश्रेषु बहुष्वशोकवृक्षेष्वशोकवनमेवेदमिति विकल्पनपरम्, अत्र हि कतिपयाशोकवृक्षाणां सद्भावात् सत्यताऽन्येषामपि धवादीनां सद्भावादसत्यता, व्यवहारनयमतापेक्षया चैवमुच्यते, परमार्थतः पुनरिदमसत्यमेव, यथाविकल्पितार्थायोगात्, तथा यन्न सत्यं नापि मृषा नापि सत्यमृषा तदसत्यामृषा, इह विप्रतिपत्तौ सत्यां यद्वस्तुप्रतिष्ठाशया सर्वज्ञमतानुसारेण विकल्प्यते यथाऽस्ति जीवः सदसद्रूप इति तत्किल सत्यं परिभाषितमाराधकत्वात्, यत्पुनर्विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाशया सर्वज्ञमतोत्तीर्णं विकल्प्यते यथा नास्ति जीव एकान्तनित्यो वेति तदसत्यं विराधकत्वात्, यत्पुनर्वस्तुप्रतिष्ठाशामन्तरेण स्वरूपमात्रपर्यालोचनपरम्, यथा - हे देवदत्त ! घटमानय, गां देहि मह्यमित्यादिचिन्तनं तदसत्यामृषा, इदं हि स्वरूपमात्रपर्यालोचनपरत्वान्न यथोक्तलक्षणं सत्यं नापि मृषेति, इदमपि व्यवहारनयमतेन द्रष्टव्यम्, निश्चयनयमतेन तु विप्रतारणादिबुद्धिपूर्वकमसत्येऽन्तर्भवत्यन्यथा तु सत्य इति । यथा मनः सत्यादिभेदाच्चतुर्धा तथा वागपि सत्यादिभेदाच्चतुर्धा । तथौदारिकवैक्रियाहारकाणि शरीराणि, तत्रोदारं प्रधानम्, प्राधान्यं च तीर्थकरगणधरशरीरापेक्षया द्रष्टव्यम्, ततोऽन्यस्यानुत्तरसुरशरीरस्याप्यनन्तगुणहीनरूपत्वात्, अथवोदारं सातिरेकयोजनशतसहस्रमानत्वाच्छेषशरीरेभ्यो बृहत्प्रमाणम्, बृहत्ता चास्य वैक्रियमाश्रित्य भवधारणीयसहजशरीरापेक्षया द्रष्टव्या, अन्यथोत्तरवैक्रियं योजनलक्षमानमपि लभ्यत इति, उदारमेवौदारिकम्, तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियम्, तथाहि-तदेकं भूत्वाऽनेकं भवत्यनेकं च भूत्वैकं तथाऽणु भूत्वा महद्भवति महद् भूत्वाऽण्वित्यादि, तथा चतुर्दशपूर्वविदा तीर्थकरस्फातिदर्शनादिकतथाविधकार्योत्पत्तौ विशिष्टलब्धिवशादाहियते-निर्वर्त्यत इत्याहारकम्, तथा मिश्रशब्दः प्रत्येकं संबध्यते, औदारिकमिश्रं वैक्रियमिश्रमाहारकमिश्रं च, तत्रौदारिकमिश्रं कार्मणेन, तच्चापर्याप्तावस्थायां केवलिसमुद्घातावस्थायां वा, उत्पत्तिदेशे हि पूर्वभवादनन्तरागतो जीव आद्यसमये कार्मणेनैव केवलेनाहारयति, ततः परमौदारिकस्याप्यारब्धत्वादौदारिकेण कार्मणमिश्रेण यावच्छरीरस्य निष्पत्तिः, केवलिसमुद्घातावस्थायां तु द्वितीयषष्ठसप्तमसमयेषु कार्मणेन मिश्रमौदारिकं प्रतीतमेव, तथा वैक्रियमिश्रं कार्मणेनौदारिकेण वा, तत्र कार्मणेन मिश्रं देवनारकाणामपर्याप्तावस्थायामाद्यसमयानन्तरं द्रष्टव्यम्, बादरपर्याप्तकवायोः पञ्चेन्द्रियतिर्यग्मनुष्याणां च वैक्रियलब्धिमतां वैक्रियारम्भकाले वैक्रियपरित्यागकाले वौदारिकेण मिश्रम्, तथा सिद्धप्रयोजनस्य चतुर्दशपूर्वविद आहारकं त्यजत औदारिकं गृह्णत आहारकं वा प्रारभमाणस्याहारकमिश्रमौदारिकेण ज्ञेयम्, तथा 'कम्मयगंति कर्मजकं कर्मणो जातं कर्मजं कर्मात्मक-मित्यर्थस्तदेव कर्मजकम्, किमुक्तं भवति ? कर्मपरमाणव एवात्मप्रदेशैः सह क्षीरनीरवदन्योऽन्यानुगताः सन्तः शरीररूपतया परिणताः कर्मजशरीरमिति, अत एव तदन्यत्र कार्मणमित्युक्तम्, कर्मणो विकारः कार्मणमिति, तथा चोक्तम् - कम्मविवागो कम्मणमट्टविहविचित्तकम्मनिष्फन् । सव्वेसि सरीराणं कारणभूयं मुणेयव्वं ।। [कर्मविपाकः कार्मणमष्टविधविचित्रकर्मनिष्पन्नम् । सर्वेषां शरीराणां कारणभूतं ज्ञातव्यम् ।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy