________________
५-तत्त्वतत्त्वम् गा-२३१
३०३
प्ररूपयतोऽसत्या जीवमजीवमिति, सत्यामृषा क्वचिद्विवक्षितसमये मनुष्यशतमुत्पन्नमुपरतं वेति । असत्यामृषा तु विधेहि स्वाध्यायम, नैतत्सदृशमन्यत्तपोऽस्तीत्येवमादि, एवमष्टौ योगाः । तथा 'काउ'त्ति काययोग 'ओराल'त्ति उदारं शेषशरीरेभ्यः प्रधानम्, प्राधान्यं चेह तीर्थकृद्गणधरशरीरापेक्षया, तदन्यस्यानुत्तरसुरशरीरस्याप्यनन्तगुणहीनत्वाद् यदि वा साधिकयोजनसहस्रप्रमाणत्वेन शेषशरीरेभ्यो बृहत्प्रमाणमुदारम्, बृहत्वं च भवधारणीयापेक्षमुत्तरवैक्रियं तु लक्षयोजनमानमपि स्यात् ।
वैक्रियादिवर्गणातः परिस्थूरवर्गणानिष्पन्नत्वेन वोदारमौदारिकशरीरं तद्योगोप्युदारः । विविधा विशिष्टा वा क्रिया विक्रिया, तस्यां भवं वैक्रियम्, तस्यायं योग इति वैक्रियः । आह्रियन्ते गृह्यन्ते तीर्थकरादेः समीपतः सूक्ष्माः पदार्था अनेनेत्याहारकम्, तस्यायमित्याहारकः । तथा मिश्रोऽयमेवौदारिकादिरपर्याप्तकस्य जन्तोस्तत्रोत्पत्तावौदारिकः काययोगः कार्मणेनौदारिकशरीरिणश्च वैक्रियाहारककरणकाले ताभ्यामेव मिश्रो भवतीत्यौदारिकमिश्रः, वैक्रियमिश्रो देवादीनामुत्पत्तिसमये कार्मणेन कृतवैक्रियस्य पुनरौदारिकमिश्राद्धायामौदारिकेण, आहारकमिश्रस्तु साधिताहारककायप्रयोजनस्य पुनरौदारिकप्रवेश औदारिकेणेति प्रज्ञापनाव्याख्यानाभिप्रायः । 'कम्मइगु'त्ति कार्मणो विग्रहे केवलिसमुद्घाते चेति । तैजसस्य तु सदैव कार्मणसहचरत्वान तव्यापारः पृथगिति न तदभिधानमिति काययोगः सप्तधा सर्वमीलने योगाः पञ्चदशेति गाथार्थः । ।२३१।।
* प्रवचनसारोद्धारे-१३०५ * इदानीं 'योगा पन्नरस'त्ति सप्तविंशत्युत्तरं द्विशततमं द्वारमाह
सचं मोसं मीसं असञ्चमोसं मणो तह वई य ।
उरल विउव्वाहारा मीस कम्मयग मिय जोगा ।। यद्यपि मनोवाक्कायावष्टम्भसमुत्थो जीवस्य परिस्पन्द एव योग उच्यते तथाऽपीह योगशब्देन कारणे कार्योपचारात्तत्सहकारिभूतं मनःप्रभृत्येव विवक्षितमिति तैः सह योगस्य सामानाधिकरण्यम्, तत्र मनश्चतुर्धा, तद्यथा-सत्यं मृषा मिश्रमसत्यामृषा च, तत्र सन्तो मुनयः पदार्था वा जीवादयस्तेषु यथासङ्ख्यं मुक्तिप्रापकत्वेन यथावस्थितवस्तुस्वरूपचिन्तनेन च साधु सत्यम्, यथा-अस्ति जीवः सदसद्रूपो देहमात्रव्यापीत्यादिरूपतया यथावस्थितवस्तुविकल्पनचिन्तनपरम्, सत्यं विपरीतमसत्यम्, यथा-नास्ति जीव एकान्तसद्पो वेत्याद्ययथावस्थितवस्तुप्रतिभासनपरम्, सत्यं च मृषा चेति मिश्रम्, यथा धवखदिरपला