SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चक्रे० : इहाग्निसम्पर्कादिष्टकादे रक्ततेव मनोवाक्कायसम्बन्धादात्मनः शक्तिविशेषा योगाः, स्थविरस्याऽऽलम्बनयष्टिवज्जीवस्योपग्राहकाः । ते चाऽमी सत्यादयः । तत्र १ - यथावस्थितार्थसङ्कल्पनेन सत्यम्, २-तद्विपरीतं मृषा, ३ - मिश्रमुभयस्वभावम्, ४- तद्विपरीतमसत्याऽमृषं मनः, वाक् च प्रागुक्तभाषा[मनो] वत् सत्यादिका चतुर्द्धा । एवमष्टौ योगाः । 'काउ' त्ति काययोगः 'उराल'त्ति उदारं शेषशरीरेभ्यः प्रधानमौदारिकशरीरम्, तद्योगोऽप्युदारः, प्राधान्यं चेह तीर्थकृद्गणधरशरीरापेक्षम् । तदन्यस्याऽनुत्तरशरीरस्याऽप्यनन्तगुणहीनत्वात् । विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियम्, तद्योगोऽपि वैक्रियः । आह्रियन्ते गृह्यन्ते तीर्थकरादेः पार्श्वात् सूक्ष्माः पदार्था अनेनेत्याहारकं तस्याऽयमिति योगोऽप्याहारकः । मिश्रस्त्रिधौदारिकशरीरिण उत्पत्तिकाले कार्मणेन । वैक्रियाहारककरणकाले च ताभ्यामेव मिश्रो भवतीत्यौदारिकमिश्रः । देवादीनामुत्पत्तिक्षणे कार्मणेन कृतवैक्रियस्य, पुनरौदारिकमिश्रणकाल औदारिकेण वैक्रियमिश्रः । आहारकमिश्रस्तु साधिताऽऽहारकप्रयोजनस्य पुनरौदारिकप्रवेश औदारिकेणेति । 'कम्मइगु त्ति कार्मणयोगो विग्रहे । कार्मणशरीरयोगो चतुर्थके पञ्चमे तृतीये चेति वचनात् केवलिसमुद्धाते च । तैजसस्य च सदैव कार्मणसहचरत्वान्न तद्व्यापारः पृथगस्तीति न तदभिधानमिति काययोगः सप्तधा । सर्वमेलने योगाः पञ्चदशेति गाथार्थः । । २३१ । । ३०२ देव० : इह प्रथमं तावत्सुखप्रतिपत्तये मनोवाक्काययोगस्वरूपमुच्यते, तत्रात्मना सर्वप्रदेशैर्गृहीता मनोयोग्याः पुद्गलाः शुभादिमननार्थं करणभावमालम्बन्ते तत्सम्बन्धादात्मनः पराक्रमविशेषो मनोयोगः । तथात्मना वाग्योग्याः पुद्गला गृहीता विसृज्यमाना वाक्त्वेन करणतामापद्यन्ते, तेन वाक्करणेन सम्बन्धादात्मनो भाषणशक्तिर्वाग्योगः । कायः शरीरमात्मनो निवासस्तद्योगाज्जीवस्य वीर्यपरिणामः काययोगः । ते चामी त्रयोऽपि मनोवाक्कायसम्बन्धादग्निसम्बन्धादिष्टकादे रक्ततेवात्मनो वीर्यपरिणतिविशेषा मनोवाक्काययोगा इत्युच्यन्ते, यदाह - जोगो विरियं थामो उच्छाह परक्कमो तहा चिट्ठा । सत्ति सामत्थं तिय जोगस्स हवंति पज्जाया ।। [ पञ्चसंग्रह - ३९६] एते स्थविरस्य दुर्बलस्य वालम्बनयष्ट्यादिवज्जीवस्योपग्राहका इति I सम्प्रति गाथाव्याख्यानम् - अनुश्रियते सद्भ्योऽर्थात्पदार्थेभ्यो हितं यथावत्सङ्कल्पनेनेति सत्यं तद्विपरीतं मृषा, मिश्रमुभयस्वभावमसत्यामृषमुभयस्वभावविकलमनोदलिकरूपम्, मन इति मनोयोगः । वइ'त्ति चकाराभावेऽपि समुच्चयावगमाद्वाक्सत्यादिरूपेत्यर्थः । तत्र सत्या जीवं जीवमिति
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy