SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ५-तत्त्वतत्त्वम् गा-२३१ ३०१ * प्रवचनसारोद्धारे-९६८, ९६९ * इदानीं 'जोणिलक्ख चुलसी'त्येकपञ्चाशदधिकशततमं द्वारमाह - पुढविदगअगणिमारुय एक्कक्के सत्त जोणिलक्खाओ । वणपत्तेयअणंते दस चउदस जोणिलक्खाओ ।। विगलिंदिएसु दो दो चउरो चउरो य नारयसुरेसुं । तिरिएसु होति चउरो चउदस लक्खा उ मणुएसु ।। 'यु मिश्रणे' इत्यस्य धातोर्युवन्ति भवान्तरसङ्क्रमणकाले तैजसकार्मणशरीरवन्तः सन्तो जीवा औदारिकादिशरीरप्रायोग्यपुद्गलस्कन्धैर्मिश्रीभवन्त्यस्यामित्यौणादिके निप्रत्यये योनिर्जीवानामुत्पत्तिस्थानमित्यर्थः, तत्र पृथिव्युदकाग्निमरुतां सम्बन्धिन्येकैकस्मिन् समूहे सप्त सप्त योनिलक्षा भवन्ति, तद्यथा-सप्त पृथिवीनिकाये सप्तोदकनिकाये सप्ताग्निनिकाये सप्त वायुनिकाये, वनस्पतिनिकायो द्विविधस्तद्यथा-प्रत्येकोऽनन्तकायश्च, तत्र प्रत्येकवनस्पतिनिकाये दश योनिलक्षाः, अनन्तवनस्पतिनिकाये चतुर्दश लक्षाः । विकलेन्द्रियेषु द्वीन्द्रियादिषु द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियरूपेषु प्रत्येकं द्वे द्वे योनिलक्षे, तद्यथा-वे योनिलक्षे द्वीन्द्रियेषु द्वे त्रीन्द्रियेषु द्वे चतुरिन्द्रियेषु तथा चतस्रो योनिलक्षा नारकाणाम्, चतस्रो देवानाम्, तथा तिर्यक्षु पञ्चेन्द्रियेषु चतस्रो योनिलक्षाः, चतुर्दश योनिलक्षा मनुष्येषु, सर्वसङ्ख्यायाश्च मीलने चतुरशीतियोनिलक्षा भवन्तीति । न च वक्तव्यमनन्तानां जीवानामुत्पत्तिस्थानान्यप्यनन्तानि प्राप्नुवन्ति, यतो जीवानां सामान्याधारभूतो लोकोऽप्यसङ्ख्येयप्रदेशात्मकमेव, विशेषाधाररूपाण्यपि नरकनिष्कुटदेवशयनीयप्रत्येकसाधारणजन्तुशरीराण्यसङ्ख्येयान्येव, ततो जीवानामानन्त्येऽपि कथमुत्पत्तिस्थानानामानन्त्यम् ?, भवन्तु तहसङ्ख्येयानीति चेनैवम्, यतो बहून्यपि तानि केवलिदृष्टेन केनचिद्वर्णादिना धर्मेण सदृशान्येकैव योनिरिष्यते, ततोऽनन्तानामपि जन्तूनां केवलिविवक्षितवर्णादिसादृश्यतः परस्परान्तर्भावचिन्तया चतुरशीतिलक्षणसङ्ख्या एव योनयो भवन्ति न हीनाधिकाः ।।९६८, ९६९।। चक्रे० : अथ क्रमप्राप्तं योगद्वारमाहुः - देव० : अधुना योगानाह - सचं मोसं मीसं असञ्चमोसं मणोवई अट्ठ । काओ उराल-विक्किय-आहारगमीस-कम्मइगो।।२३१।। १. जीवतत्त्वस्य विचारयितुमारब्धत्वात्तद्गतमेव योगोपयोगादिकमभिधित्सुस्तावद्योगानाह । गुरवस्तु पाणेत्यादिद्वारगाथाखण्डकमन्यथा व्याख्यानयन्ति, यथा संयमस्य योनिः संयमयोनिः शुभयोगस्तत्प्रभवत्वात्संयमस्येति । अस्मिंश्च व्याख्याने क्रमप्राप्तसेवयाय [?] द्वारमिति सामान्येन योगानाह T.C. २. काउ. B.K,
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy