________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
यथा पार्श्वनाथतीर्थाद् महावीरतीर्थं संक्रामतः पञ्चयामधर्मप्रतिपत्ताविति । सातिचारं तु मूलगुणघातिनो यत्पुनरपि महाव्रतारोपणमिति ।
३००
तृतीयं तु चारित्रं परिहारविशुद्धिकम् । तत्र परिहरणं परिहारस्तपोविशेष:, तेन कर्मनिर्जरारूपा विशुद्धिर्यस्मिंश्चारित्रे तत् परिहारविशुद्धिकम् । एतदपि द्विभेदम् - निर्विशमानकम्, निर्विष्टकायिकं च । तत्रास्यैव चारित्रस्यासेवकाः साधवो निर्विशमानका उच्यन्ते, तदव्यतिरेकादिदमपि चारित्रं निर्विशमानकं भण्यते । आसेवितैतच्चारित्रकायास्तु मुनयो निर्विष्टकायाः, त एव स्वार्थिकप्रत्ययोपादानाद् निर्विष्टकायिकाः, तदभेदादिदमपि चारित्रं निर्विष्टकायिकम् । एतत्स्वरूपं च विस्तरतो भाष्येऽभिधास्यत इति ।
तथा इत्यानन्तर्ये, गाथाभङ्गभयाद् व्यवहितस्योपन्यासः, 'सूक्ष्मम्' इत्यनुस्वारोऽप्यलाक्षणिकः । सूक्ष्मसंपरायं चतुर्थं चारित्रम् । तत्र संपर्येत्येभिः संसारमिति संपरायाः कषायाः, सूक्ष्मा लोभांशावशेषत्वात् संपराया यत्र तत् सूक्ष्मसंपरायम् । इदमपि द्विविधं विशुध्यमानकं संक्लिश्यमानकं च । तत्र विशुध्यमानकं क्षपकोपशमश्रेणिद्वयमारोहतो भवति । संक्लिश्यमानकं तूपशमश्रेणेः प्रच्यवमानस्य प्राप्यते । चः समुच्चये ।
ततश्च सूक्ष्मसंपरायानन्तरं सर्वत्र साधुजीवलोके ख्यातं प्रसिद्धं यथाख्यातं पञ्चमं सर्वविशुद्धं चारित्रं भवति। तत् कथम्भूतम् ? इत्याह-यचरित्वाऽऽसेव्य, शोभनं विहितमनुष्ठानं येषां ते सुविहिताः सुसाधवो व्रजन्त्यजरामरं मोक्षलक्षणं स्थानम् । तत्र मरणं मरः । स्वरान्तत्वादल्प्रत्ययः । न विद्यते जरा - मरौ यत्र तदजरामरम् । इदं च कषायोदयरहितत्वात् क्षीणमोहोपशान्तमोहलक्षणस्य च्छद्मस्थवीतरागस्य सयोग्यऽयोगिकेवलिनश्च भवति । इति नियुक्तिगाथाद्वयसंक्षेपार्थः । । १२६०, १२६१ ।।
देव० :
१
अथ योनिद्वारं विवृणोति
पुढविदगअगणिमारुय इक्किक्के सत्तजोणिलक्खाओ । वणपत्तेय अणंता दस चउद्दस जोणिलक्खाओ ।। २२९ ।। विगलिंदिए दो दो चउरो चउरो य नारयसुरेसु ।
तिरिए हुंति चउरो चउदस लक्खा उ मणुएसु । । २३० ।।
देव० : स्पष्टे, नवरं सर्वमीलनाच्चतुरशीतिलक्षाणि । अत्र च समानवर्णगन्धरसस्पर्शपरिणामा बह्व्योऽपि व्यक्तय एकैव योनिः, अन्यथा प्रतिव्यक्तियोनिभेदे योनिभूयस्त्वं प्राप्नोतीति । इह चैताः सर्वा अपि सामान्येन सचित्ताचित्ततन्मिश्रसंवृतविवृततन्मिश्रशीतोष्णतन्मिश्रभेदान्नवधा भवन्तीति गाथार्थः।।२२९, २३० ।।
१. योनयः पुनः सचित्ताचित्ततन्मिश्र संवृतविवृततन्मिश्र शीतोष्णतन्मिश्र भेदान्नवधा, एतासां च भेदाश्चतुरशीतिर्लक्षाणि, तद्विभागश्चायम् T,C,