________________
५-तत्त्वतत्त्वम् गा-२२७, २२८
२९९
एवेसो अट्ठारसमासपमाणो उ वण्णिओ कप्पो । संखेवओ विसेसा विसेससुत्ताओ णायव्वो ।। कप्पसमत्तीए तयं जिणकप्पं वा उविंति गच्छं वा ।
पडिवज्जमाणगा पुण जिणस्स पासे पवज्जति ।। तित्थयरसमीवासेवगस्स पासे व णो उ अण्णस्स । एतेसिं जं चरणं परिहारविसुद्धिगं तं तु ।। तथेत्यानन्तर्यार्थे, गाथाभङ्गभयाद् व्यवहितस्योपन्यासः, सूक्ष्मसंपरायमिति संपर्येत्येभिः संसारमिति संपरायाः कषायाः, सूक्ष्मा लोभांशावशेषत्वात् संपराया यत्र तत् सूक्ष्मसंपरायम्, तञ्च द्विधा-विशुध्यमानकं संक्लिश्यमानकं च, तत्र विशुध्यमानकं क्षपकोपशमकश्रेणिद्वयमारोहतो भवति, संक्लिश्यमानकं तूपशमश्रेणितः प्रच्यवमानस्येति, चः समुच्चय इति गाथार्थः ।।११४ ।।
ततश्च सूक्ष्मसंपरायानन्तरं यथैवाख्यातं यथाख्यातमकषायचारित्रमिति यथाख्यातं प्रसिद्धं सर्वस्मिञ्जीवलोके, तच्च छद्मस्थवीतरागस्य केवलिनश्च भवति, तत्र च छद्मस्थस्योपशामकस्य क्षपकस्य वा, केवलिनस्तु सयोगिनोऽयोगिनो वेति, शेष निगदसिद्धम्, नवरं मरणं मरो जरा च मरश्च जरामरौ तावविद्यमानौ यस्मिन् तदजरामरमिति गाथार्थः ।।११५ ।।
* विशेषावश्यकभाष्ये-१२६०, १२६१ * सामाइय त्थ पढमं छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ।। तत्तो य अहक्खायं खायं सव्वम्मि जीवलोयम्मि ।
जं चरिऊण सुविहिया वचंतयरामरं ठाणं ।। राग-द्वेषविरहितः समस्तस्य प्रतिक्षणमपूर्वापूर्वनिर्जराहेतुभूताया विशुद्धेरायो लाभः समायः, स एव सामायिकं सर्वसावद्ययोगविरमणमित्यर्थः । ततश्च सर्वमप्येतच्चारित्रमविशेषतः सामायिकमेव छेदादिविशेषैस्तु विशेष्यमाणमर्थतः संज्ञातश्च नानात्वं प्रतिपद्यते । तदत्रैतेषु मध्ये प्रथमं छेदादिविशेषाणामभावात् सामान्यसंज्ञायामेवावतिष्ठते सामायिकम् । एतच्च द्विधा-इत्वरम्, यावत्कथिकं च । तत्र स्वल्पकालभावीत्वरम्। इदं च भरतैरावतक्षेत्रेषु प्रथम-पश्चिमतीर्थकरतीर्थेऽनारोपितमहाव्रतस्य शिष्यस्य विज्ञेयम् । अत्र जन्मनि यावज्जीवितकयाऽस्त्यात्मनः, तावत्कालभावि यावत्कथं तदेव यावत्कथिकम्, आभववर्तीत्यर्थः । एतच्च भरतैरावतमध्यमद्वाविंशतितीर्थकरसाधूनां महाविदेहार्हत्संयतानां चावसेयम्, एषामुपस्थापनाया अभावादिति ।
द्वितीयं तु चारित्रं छेदोपस्थापनमुच्यते । तत्र च्छेदश्चोपस्थापना च यस्मिंश्चारित्रे तच्छेदोपस्थापनम्पूर्वपर्यायस्य च्छेदः, महाव्रतेषूपस्थापनं चात्मनो यत्र तच्छेदोपस्थापनमित्यर्थः । एतदपि द्विधा-सातिचारम्, अनतिचारं च । तत्रानतिचारं यदित्वरसामायिकस्य शिष्यस्योपस्थापनायामारोप्यते, तीर्थान्तरसंक्रान्तौ वा,