________________
२९८
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
स्थिता एव, किन्तु पुरिमपश्चिमतीर्थकरसाधूनामुपस्थापनया ज्येष्ठः, तेषां तु सामायिकारोपणेनेति । तथा ८-प्रतिक्रमणेऽस्थिताः, पुरिमपश्चिमसाधूनां नियमेनोभयकालं प्रतिक्रमणं तेषां त्वनियमः, दोषाभावे सर्वकालमप्यप्रतिक्रमणमिति। तथा ९-१० मासपर्युषणाकल्पद्वारम् -तत्र मासकल्पेऽप्यस्थिताः कथम् ? पुरिमपश्चिमतीर्थकरसाधूनां नियमतो मासकल्पविहारः, मध्यमतीर्थकरसाधूनां तु दोषाभावे न विद्यते, एवं पर्युषणाकल्पोऽपि वक्तव्यः, एतदुक्तं भवति-तस्मिन्नप्यस्थिता एवेति समुदायार्थः, विस्तरार्थस्तु कल्पादवगन्तव्यः । __ अभिहितमानुषङ्गिकम्, इदानी प्रकृतमुच्यते-आह-पुरिमपश्चिमतीर्थकरसाधूनामपि यदित्वरं सामायिकं तत्रापि 'करोमि भदन्त ! सामायिकं यावज्जीवं' इतीत्वरस्याप्याभवग्रहणात् तस्यैवोपस्थापनायां परित्यागात् कथं न प्रतिज्ञा लोप इति, अत्रोच्यते-अतिचाराभावात्, तस्यैव सामान्यतः सावद्ययोगविनिवृत्तिरूपेणावस्थितस्य शुद्ध्यान्तरापादनेन संज्ञामात्रविशेषादिति । चशब्दो वाक्यालङ्कारे, प्रथममाद्यं चारित्रमिति,
इदानीं छेदोपस्थापनम्-छेदश्चोपस्थानं च यस्मिंस्तच्छेदोपस्थापनम्, एतदुक्तं भवति-पूर्वपर्यायस्य छेदो महाव्रतेषु चोपस्थापनमात्मनो यत्र तच्छेदोपस्थापनम्, तच्च सातिचारमनतिचारं च, तत्रानतिचारं यदित्वरसामायिकस्य शिक्षकस्यारोप्यत इति, तीर्थान्तरसंक्रान्तौ वा, यथा पार्श्वनाथतीर्थाद्वर्धमानस्वामितीर्थ संक्रामतः पञ्चयामधर्मप्रतिपत्ताविति, सातिचारं तु मूलगुणघातिनो यत् पुनव्रतोच्चारणमिति, उक्तं छेदोपस्थापनम्,
इदानीं परिहारविशुद्धिकम्-तत्र परिहरणं परिहारस्तपोविशेषस्तेन विशुद्धिर्यस्मिंस्तत्परिहारविशुद्धिकम्, तञ्च द्विभेदम्-निर्विशमानकं निर्विष्टकायिकं च, तत्र निर्विशमानकास्तदासेवकास्तदव्यतिरेकात्, तदपि चारित्रं निर्विशमानकमिति, आसेवितविवक्षितचारित्रकायास्तु निर्विष्टकायास्त एव स्वार्थिकप्रत्ययोपादानान्निविष्टकायिकास्तदव्यतिरेकाञ्चारित्रमपि निर्विष्टकायिकमिति, इह च नवको गणो भवति, तत्र चत्वारः परिहारिका भवन्ति, अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च निर्विशमानकानामयं परिहारः -
परिहारियाण उ तवो जहण्ण मज्झो तहेव उक्कोसो । सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं ।। तत्थ जहण्णो गिम्हे चउत्थ छटुं तु होइ मज्झिमओ । अट्ठममिहमुक्कोसो एत्तो सिसिरे पवक्खामि ।। सिसिरे तु जहण्णादी छट्ठादी दसमचरिमगो होति । वासासु अट्ठमादी बारसपज्जंतगो णेओ ।। पारणगे आयामं पंचसु गहो दोसभिग्गहो भिक्खे । कप्पट्ठियादि पइदिण करेति एमेव आयामं ।। एवं छम्मासतवं चरित्तु परिहारिया अणुचरंति । अणुचरगे परिहारियपदट्ठिते जाव छम्मासा ।। कप्पट्ठितोवि एवं छम्मासतवं करेंति सेसा उ । अणुपरिहारिगभावं वयंति कप्पट्ठिगत्तं च ।।