________________
५-तत्त्वतत्त्वम् गा-२२७, २२८
२९७
सामायिकमिति समानां ज्ञानदर्शनचारित्राणामायः समायः, समाय एव सामायिकम्, विनयादिपाठात् स्वार्थे ठक्, आह-समयशब्दस्तत्र पठ्यते, तत्कथं समाये प्रत्ययः ? उच्यते, 'एकदेशविकृतमनन्यवद्भवती' ति न्यायात्, तच्च सावद्ययोगविरतिरूपम्, ततश्च सर्वमप्येतच्चारित्रमविशेषतः सामायिकम्, छेदादिविशेषैस्तु विशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते, तत्र प्रथमं विशेषणाभावात् सामान्यशब्द एवावतिष्ठते सामायिकमिति, तञ्च द्विधा-इत्वरं यावत्कथिकं च, तत्र स्वल्पकालमित्वरम्, तच्च भरतैरवतेषु प्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपितव्रतस्य शिक्षकस्य विज्ञेयमिति, यावत्कथिकं तु यावत्कथाऽऽत्मनस्तावत्कालं यावत्कथं यावत्कथमेव यावत्कथिकमाभववर्तीति यावत्, तच्च मध्यमविदेहतीर्थकरतीर्थान्तर्गतसाधूनामवसेयमिति, तेषामुपस्थापनाऽभावात्, अत्र प्रसङ्गतो मध्यमविदेहपुरिमपश्चिमतीर्थकरतीर्थवतिसाधुस्थितास्थितकल्पः प्रदर्श्यते-तत्र ग्रन्थान्तरे विवक्षितार्थप्रतिपादिकेयं गाथा -
आचेलक्कुदृसिय सेज्जायर रायपिंड किइकम्मे । वयजिट्ठपडिक्कमणे मासं पज्जोसवणकप्पो।। अस्या गमनिका-चउसु ठिआ छसु अट्ठिआ, केषु चतुर्विति आह
सिज्जायरपिंडे या चाउज्जामे य पुरिसजिढे य । किइकम्मस्स य करणे चत्तारि अवट्ठिआ कप्पा ।। १-नास्य चेलं विद्यत इत्यचेलकस्तद्भावोऽचेलकत्वमचेलकत्वे स्थिताः, एतदुक्तं भवति-न वैदेहमध्यमतीर्थकरतीर्थसाधवः पुरिमपश्चिमतीर्थवर्तिसाधुवदचेलत्वे स्थिताः, कुतः ? तेषामृनुप्राज्ञत्वाद् महाधनमूल्यविचित्रादिवस्त्राणामपि परिभोगात्, पुरिमपश्चिमतीर्थकरतीर्थवर्तिसाधूनां तु ऋजुवक्रजडत्वाद् महाधनमूल्यादिवत्रापरिभोगाज्जीर्णादिपरिभोगाच्चाचेलकत्वमिति । आह-जीर्णादिवस्त्रसद्भावे कथमचेलकत्वम् ? उच्यते, तेषां जीर्णत्वादसारत्वादल्पत्वाद् विशिष्टार्थक्रियाऽप्रसाधकत्वादसत्त्वाविशेषादिति, तथा चेत्थम्भूतवस्त्रसद्भावेऽपि लोकेऽचेलकत्वव्यपदेशप्रवृत्तिदृश्यते, यथा-काचिदङ्गना जीर्णवस्त्रपरिधानाऽन्याभावे सति तद्भावेऽपि च समर्पितसाटकं कुविन्दं तन्निष्पादनमन्थरं प्रति आह-'त्वर कोलिक ! नग्निकाऽहमिति । २-तथौद्देशिकेऽप्यस्थिता एव, कथम् ? इह पुरिमपश्चिमतीर्थकरसाधुमुद्दिश्य कृतमशनादि सर्वेषामकल्पनीयम्, तेषां तु यमुद्दिश्य कृतं तस्यैवाकल्पनीयं न शेषाणामिति । तथा ३-शय्यातरराजपिण्डद्वारम्-पिण्डग्रहणमुभयत्र संबध्यते, तत्र शय्यातरपिण्डे स्थिता एव, शय्यातरपिण्डो हि यथा पुरिमपश्चिमतीर्थकरसाधूनामकल्पनीयः, एवं मध्यमतीर्थकरसाधूनामपि । ४-राजपिण्डे चास्थिताः, कथम् ! स हि पुरिमपश्चिमतीर्थकरसाधूनामग्राह्य एव, मध्यमानां तु दोषाभावाद् गृह्यते । तथा ५-कृतिकर्म वन्दनमाख्यायते, तत्रापि स्थिताः, कथम् ? यथा पुरिमपश्चिमतीर्थकरसाधूनां प्रभूतकालप्रव्रजिता अपि संयत्यः पूर्वं वन्दनं कुर्वन्ति, एवं तेषामपि, यथा वा क्षुल्लका ज्येष्ठार्याणां कुर्वन्ति, एवं तेषामपि। ६-व्रतानि प्राणातिपातादिनिवृत्तिलक्षणानि तेष्वपि स्थिता एव, यथा पुरिमपश्चिमतीर्थकरसाधवो व्रतानुपालनं कुर्वन्ति, एवं तेऽपीति, आह-तेषां हि मैथुनविरतिवानि चत्वारि व्रतानि, ततश्च कथं स्थिता इति, उच्यते, तस्यापि परिग्रहेऽन्तर्भावात् स्थिता एव, तथा च नापरिगृहीता योषिदुपभोक्तुं पार्यते । तथा ७-ज्येष्ठेति ज्येष्ठपदे