________________
२९४
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
चक्रे० : एताश्च दृष्टान्तेन स्पष्टाः स्युरिति तद्वयमाहुः - देव० : एताश्च दृष्टान्ततः स्पष्टतयावगम्यन्त इति दृष्टान्तद्वयसूचनायाह -
मूलं साहपसाहागुच्छफले छिंदपडियभक्खणया ।
सव्वं माणुस पुरिसे साउह-जुझंत-धणहरणा।।२२६ ।। चक्रे० : किल केचित् षट् पथिकाः क्षुदार्ताः फलप्राग्भारभुग्नशाखाप्रशाखाशतं मार्गे जम्बूवृक्षमद्राक्षुः । तत्रैकस्तेष्वाह मूलम्, द्वितीयः शाखाः, तृतीयः प्रशाखाः, चतों गुच्छान् फलाधारभूतान् स्तबकान्, पञ्चमः फलानि छिन्तेति, षष्ठः पुनः शुद्धतमपरिणामः स्माह पतितभक्षणतां वातादिना यानि फलानि पतितानि सन्ति तान्येव भक्षयतेत्यर्थः । इहाद्यः कृष्णलेश्यो द्वितीयो नीललेश्यो यावदन्तिमः शुक्ललेश्य इति । द्वितीयोदाहरणम् - किल केचित् षट् चौराः कञ्चन ग्रामं मुषितुमारब्धास्तत्रैकस्तेष्ववोचद् - यथा सर्वं तिर्यग्मनुष्यादिकम् । द्वितीयस्तु मनुष्यान्, न तिरश्चः । तृतीयः पुरुषान्, न स्त्रीः । चतुर्थस्तानपि सायुधान्, न निरस्त्रान् । पञ्चमस्तानपि युध्यमानान्, नोदासीनान् हतेति क्रियाध्याहारः । षष्ठस्तु धनहरणम् – केवलं धनमेव हरत मा किञ्चिद् वधिष्टेत्यर्थः । लेश्योपनयस्तु प्राग्वत्।।२२६ ।।
देव० : किल केचन षट् पुरुषाः क्षुत्क्षामकुक्षयः प्रचुरतरफलभरावनतशालाशालमानमेकं जम्बूवृक्षमद्राक्षुस्ततः सर्वेषामपि फलजिघत्सूनां कथं पुनर्ग्रहीतव्यानीति सञ्जातचिन्तानां च तेषामेकः प्राह - 'मूलं' ति स्कन्धं छिन्तेति सर्वत्र योज्यम्, यथा पतितस्य शाखिनः सुखमास्वाद्यन्ते फलानि द्वितीयस्तु किञ्चिद्विशुद्धपरिणामः प्राह - शाखाः स्कन्धप्रभवा मूलच्छेदेऽपि तास्वेव फलावाप्तेः । तृतीयः प्राह - प्रशाखाः शाखाप्रभवाः, शाखाभङ्गेऽपि प्रशाखास्वेव फलसद्भावात् । तुर्यः प्राह - गुच्छान् प्रशाखाप्ररूढान्, प्रशाखाभ्रंशेऽपि गुच्छेष्वेवातुच्छफललाभात् । पञ्चमः प्राह - फलानि गुच्छाग्रजातानि, तदर्थमेव प्रवृत्तेः । षष्ठः पुनः शुद्धतमो प्राहपतितभक्षणताम्, स्वार्थे तल प्रत्ययः, वाय्वादिनां यानि पतितानि सन्ति तान्येव भक्षयत, अलं मूलच्छेदादिभिरिहाद्यः कृष्णलेश्यो द्वितीयो नील लेश्यो यावदन्तिमः शुक्ललेश्यः परिणामतारतम्यादिति । अथवा द्वितीयमुदाहरणम् - १. व्याजहार मूलमिह प्रकाण्डम् T,B.C. २. चतुर्थस्तु गुच्छकान् स्तबकान् फलाधारभूतान् T,B,C, ३. बभाण T,B.C,