________________
५-तत्त्वतत्त्वम् गा-२२५
सांव्यवहारिकाः, ये पुनरनादिकालादारभ्य सूक्ष्मनिगोदेष्वेवावतिष्ठन्ते ते तु तथाविधव्यवहारातीतत्वादसांव्यवहारिकाः, तत्र सांव्यवहारिकाः सूक्ष्मनिगोदेभ्य उद्धृत्य शेषजीवेषूत्पद्यन्ते, तेभ्योऽप्युद्धृत्य केचिद् भूयोऽपि तेष्वेव निगोदेषु गच्छन्ति परं तत्रापि सांव्यवहारिका एव ते, व्यवहारे पतितत्वात्, तत्र च सूत्रोक्तमुत्कर्षतोऽवस्थानकालमानम्, असांव्यवहारिकास्तु सदा निगोदेष्वेवोत्पत्तिमरणभाजो, न कदाचनापि त्रसादिभावं लब्धवन्त इति । । १०९४ ।।
चक्रे० : अथ लेश्याद्वारमाहुः
देव० : अथ लेश्याद्वारमधिकृत्याह -
किण्हा- नीला-काऊ-तेऊ - पम्हा तहेव सुक्का य । छल्लेसा खलु एया जीवाणं हुंति वित्रेया । । २२५ ।।
चक्रे० : लेशयन्ति श्लेषयन्त्यात्मानमष्टविधेन कर्मणेति लेश्याः कृष्णाद्याः, कृष्णादि द्रव्यसंनिधानादशुद्धतमाऽशुद्धतराऽशुद्ध-शुद्ध-शुद्धतर- शुद्धतम परिणामरूपाः षडेता जीवानां भवन्ति विज्ञेयाः ।। २२५ ।।
२९३
देव : लेशयन्ति श्लेषयन्त्यात्मानमष्टविधेन कर्मणा स्थितिहेतुत्वादिति लेश्याः । तत्र कृष्णवर्णपुद्गलसन्निधानादात्मनोऽशुद्धतमः परिणामः कृष्णलेश्या, नीलवर्णपुद्गलसन्निधानादशुद्धतरपरिणामो नीललेश्या, कापोतवर्णपुद्गलसन्निधानादशुद्धपरिणामः कापोतलेश्या, तैजसवर्णपुद्गलसन्निधानाच्छुद्धपरिणामस्तेजोलेश्या पद्मवर्णपुद्गलसन्निधानाच्छुद्धतरपरिणामः पद्मलेश्या, शुक्लवर्णपुद्गलसन्निधानाच्छुद्धतमपरिणामः शुक्ललेश्या । शेषं स्पष्टम्, कृष्णादिद्रव्याणि च सकलकर्मप्रकृतिनिष्यन्दभूतानि तदुपाधिजन्मानो भावलेश्याः कर्मस्थितिहेतवः । यदाह
-
1
ताः कृष्णनीलकापोत-तैजसीपद्मशुक्लनामानः ।
श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः । । [ प्रशमरति - ३८ ]
एतासां च वर्णादिविस्तरस्वरूपमुत्तराध्ययनादिसिद्धान्तादवसेयम्, इह तु नोच्यते ग्रन्थगौरवभयादिति गाथार्थः । । २२५ ।।