SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् एक्का कोडाकोडी बायलीसाइ जा सहस्सेहिं । वासाण होइ ऊणा दूसमसुसमाइ सो कालो ।। अह दूसमाए कालो वाससहस्साई एक्कवीसं तु । तावइओ चेव भवे कालो अहदूसमा वि ।। इत्यादि । एवं द्वाभ्यामुत्सर्पिण्यवसर्पिणीभ्यां कालचक्रं द्वादशारं विंशतिसागरोपमकोटाकोटिप्रमाणम् । तत्र च यथोत्तरं कालानुभावस्वरूपं ग्रन्थान्तरादवसेयम् । विकलेन्द्रियाणां पञ्चेन्द्रियतिरश्चां मनुष्याणां च कायस्थितिरनया गाथया ज्ञेया, यथा - २९२ वाससहस्सासंखा विगलाण ठिई उ होइ बोद्धव्वा । सत्तट्ठ भवा उ भवे पणिदितिरिमणुय उक्कोसा ।। इति । । १७ ।। * प्रवचनसारोद्धारे - १०९४ * सम्प्रति 'एगिंदियविगलिंदियसन्त्रीजीवाण कायठिइओ'त्ति पञ्चाशीत्यधिकशततमं द्वारा अस्संखोसप्पिणिसप्पिणीउ एगिंदियाण ( उ ) चउण्हं । ता चेव ऊ अनंता वणस्सइए उ बोद्धव्वा ।। - एकेन्द्रियाणां चतुर्णां पृथिव्यप्तेजोवायुरूपाणां प्रत्येकमुत्कृष्टा कायस्थितिर्मृत्वा मृत्वा तत्रैव कायेऽवस्थानमसङ्ख्येया उत्सर्पिण्यवसर्पिण्यः, एतच्च कायस्थितिमानं कालतः, क्षेत्रतस्वसङ्ख्येया लोकाः, इदमुक्तं भवति - असङ्ख्येयेषु लोकाकाशेषु प्रतिसमयमेकैकप्रदेशापहारे सर्वप्रदेशापहारेण यावत्योऽसङ्ख्येया उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्य इति, ता एव उत्सर्पिण्यवसर्पिण्योऽनन्ता वनस्पतिकायिकस्योत्कृष्टा कायस्थितिर्बोद्धव्या, इयमपि कालतः, क्षेत्रतस्तु पूवोक्तप्रकारेण अनन्ता लोकाः, असङ्ख्येयाः पुद्गलपरावर्त्ताः, ते च आवलिकाया असङ्ख्येयतमे भागे यावन्तः समयास्तत्तुल्या, इयं च कायस्थितिः सांव्यवहारिकानाश्रित्य द्रष्टव्या, असांव्यवहारिकजीवानां त्वनादिरवसेया, ततो न मरुदेव्यादिभिर्व्यभिचार:, तथा च क्षमाश्रमणाः - तह कार्याठिइकालादओ विसेसे पडुच्च किर जीवे । नाणाइवणस्सइणो जे संववहारबाहिरिया ।। [तथा कायस्थितिकालादयो विशेषान् जीवान् किल प्रतीत्य । नानादिवनस्पतीन् ये संव्यवहारबाह्याः यापि चासांव्यवहारिकजीवानामनादिः कायस्थितिः साऽपि केषाञ्चिदनादिरपर्यवसाना, ये जातुचिदप्यसांव्यवहारिकराशेरुद्धृत्य सांव्यवहारिकराशौ न निपतिष्यन्ति, केषाञ्चिदनादिः सपर्यवसाना, येऽसांव्यवहारिकराशेरुद्धृत्य सांव्यवहारिकराशौ निपतन्ति I अथ किमसांव्यवहारिकराशेर्विनिर्गत्यं सांव्यवहारिकराशावागच्छन्ति ? उच्यते, आगच्छन्ति, तथा चोक्तं विशेषणवत्याम् सिज्झति जत्तिया किर इह संववहारजीवरासीओ । इन्ति अणाइवणस्सइरासीओ तत्तिया तंमि ।। [ सिध्यन्ति यावन्तः किलेह संव्यवहारजीवराशेः । आयान्त्यनादिवनस्पतिराशेस्तावन्तस्तस्मिन् ।।] तत्र येऽनादिसूक्ष्मनिगोदेभ्य उद्धृत्य शेषजीवेषूत्पद्यन्ते ते पृथिव्यादिविविधव्यवहारयोगात्
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy