________________
५-तत्त्वतत्त्वम् गा-२२४
२९१
जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सत्तरिसागरोवमकोडाकोडीओ सुहुमनिओए पुच्छा-जहन्नेणं अंतोमुहत्तं उक्कोसेणं असंखिज्जं कालंति' । त्रसेषु पुनः कायस्थितिरिहानुक्तापि सूत्रान्तराद्रण्यते, तत्र सामान्येन वर्षाधिकानि विंशतिः सागरोपमशतानि । विशेषतस्तु
वाससहस्सा संखा विगलाण ठिई होइ नायव्वा ।
सत्तट्ठभवा उ भवे पणिंदितिरिमणुय उक्कोसा ।। [प्रव.सारो० १०९५] इति गाथार्थः ।।२२४ ।।
* उपदेशपदे-१७ * तानेवैकेन्द्रियभेदान् पृथिवीकायिकादीन् पञ्चैव प्रतीत्य दर्शयन्नाह -
अस्संखोसप्पिणिसप्पिणीउ एगिदियाण उ चउण्हं ।
ता चेव उ अणंता वणस्सईए उ बोद्धव्वा ।। _ 'अस्संखोसप्पिणिसप्पिणीउ'त्ति प्राकृतत्वादविभक्तिको निर्देशस्तेनासंख्याता उत्सर्पिण्यसवपिण्यः । तत्रोत्सर्पयति प्रथमसमयादारभ्य निरन्तरं वृद्धि नयति तैस्तैः पर्यायैर्भावानित्युत्सर्पिणी । तथा च पञ्चकल्पभाष्यम् - समए समएऽणंता परिवर्ल्डता उ वण्णमाईया। दव्वाणं पज्जायाऽहोरत्तं तत्तिया चेव ।।
तद्विपरीता त्ववसर्पिणी । तुरेवकारार्थो भिन्नक्रमस्ततोऽसंख्याता एवैकेन्द्रियाणाम्, तुरप्यर्थे भिन्नक्रमः, चतुर्णामपि पृथिव्यप्तेजोवायुकायिकानां कायस्थितिर्बोद्धव्येति संबन्धः । 'ता चेव उ' इति ता एव चोत्सर्पिण्यवसर्पिण्योऽनन्ताः वनस्पतौ तु वनस्पतिकाये पुनर्बोद्धव्या कायस्थितिरुत्कृष्टेति । किमुक्तं भवति? पृथिव्यप्तेजोवायुकायिकेषु जीवो मृत्वा पुनःपुनरुत्पद्यमान एकैककाय असंख्याता उत्सर्पिण्यवसर्पिणीयावदास्ते, वनस्पतिकायिकेषु तु प्राणिषूत्पद्यमानस्ता एवोत्सर्पिण्यवसर्पिणीरनन्ता गमयत्युत्कृष्टतः, जघन्यतस्त्वन्तर्मुहूर्तमेवेति । अथोत्सर्पिण्यवसर्पिण्योः किं प्रमाणम् ? उच्यते-द्वादशारकालचक्रमुत्सर्पिण्यवसर्पिण्यौ । तत्स्वरूपं यथा - दस कोडाकोडीओ सागरनामाण हुंति पुनाओ । उस्सप्पिणीपमाणं तं चेवोसप्पिणीए वि ।। छञ्चेव कालसमया हवंति ओसप्पिणीए भरहम्मि । तासिं नामविहत्ति अहक्कम कित्तइस्सामि ।। सुसमसुसमा य सुसमा तइया पुण सुसमदुस्समा होइ । दुसमसुसमा चउत्थी दूसम अइदूसमा छट्ठी ।। एए चेव विभागा हवंति उस्सप्पिणीइ छ ञ्चेव । पडिलोमा परिवाडी नवरि विभागेसु नायव्वा ।। सुसमसुसमाइ कालो चत्तारि हवंति कोडिकोडीओ । तिण्णि सुसमाइकालो दुन्नि भवे सुसमदुसमाए ।। १. संख्येयवर्षाधिकानि विंशतिः A, विंशतिः T,B,C