SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २९० दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् वनस्पतिकायिकानामुत्कर्षतः स्थितिर्दशवर्षसहस्राणीति, तथा द्वीन्द्रियाणामुत्कर्षत आयुःस्थितिादश वर्षाणि त्रीन्द्रियाणामेकोनपञ्चाशद्रात्रिन्दिवानि चतुरिन्द्रियाणां षण्मासाः पञ्चेन्द्रियाणां तिर्यग्मनुष्याणां त्रीणि पल्योपमानि, एषा चोत्कृष्टा स्थितिः प्रायो निरुपद्रवस्थाने द्रष्टव्या, एवमग्रेऽपि ज्ञेयम् ।।१०९६, १०९७।। चक्रे० : अथ कायस्थितिमाहुः - देव० : अथ कायस्थितिमाह - अस्संखोसप्पिणिसप्पिणीओ एगिंदियाण उ चउण्हं । ता चेव उ अणंता वणस्सईए उ बोधव्वा।।२२४।। चक्रे० : अवसर्पन्ति जन्तूनां शरीरायुर्बलबुद्ध्यादीन्यास्वित्यवसर्पिण्यो दशसागरोपमकोटीकोटिपरिमाणाः, उत्सर्पन्त्येतान्यास्वित्युत्सर्पिण्यश्च, तादृश्योऽसङ्ख्याऽवसर्पिण्युत्सर्पिण्य एकेन्द्रियाणां चतुर्णां पृथिव्यप्तेजोवायूनाम्, ताश्चैवाऽवसर्पिण्युत्सर्पिण्योऽनन्ता वनस्पतेः पुनर्बोद्धव्याः । इह चैषा कायस्थितिः सामान्योक्तावपि वनस्पतेरनन्तकायिकस्य ज्ञेया, यतः प्रत्येकवनस्पतीनामसङ्ख्येयकालैव कायस्थितिर्भगवत्यामुक्तेति।।२२४ ।। देव० : अवसर्पन्ति प्रतिसमयं कालप्रमाणं जन्तूनां वा शरीरायुर्बलबुद्ध्यादिकमपेक्ष्य ह्रासमनुभवन्त्यवश्यमित्यवसर्पिण्यश्च दशसागरोपमकोटीकोटिपरिमाणा उत्सर्पन्त्युक्तन्यायतो वृद्धिमनुभवन्त्यवश्यमित्युत्सर्पिण्यश्च तावत्प्रमाणा एव, उल्लोपः सूत्रत्वात् ततोऽसङ्ख्यशब्दस्यानेन सह कर्मधारयेऽसङ्ख्यावसर्पिण्युत्सर्पिण्य एकेन्द्रियाणां चतुर्णां पृथिव्यप्तेजोवायूनाम्, ताश्चैवावसर्पिण्युत्सर्पिण्योऽनन्ता वनस्पतेः पुनः, स्त्रिया निर्देशः प्राकृतत्वाद् । बोधव्या इहाद्यौ तुशब्दौ पादपूरणे, तथा चोक्तम्-तुशब्दो विशेषणपादपूरणावधारणसमुच्चयेषु, तृतीयस्तु विशेषणे योजित एव, इयं चोत्कृष्टतः कायस्थितिरुक्ता, जघन्यतस्तु सर्वेषामन्तमुहूर्त्तमिति । तथेहानन्तकालं कायस्थितिः सामान्येन वनस्पतिजीवान् निगोदजीवान् वापेक्ष्य विज्ञेया, विशेषापेक्षायां तु प्रत्येकवनस्पतीनां तथा निगोदानां बादराणां सूक्ष्माणां चासङ्ख्यकालैव स्थितिः । यदुक्तम् - 'पत्तेयसरीरबायरवणप्फइकाइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं सत्तरिसागरोवमकोडाकोडीओ । निओएणं भंते ! निओइत्ति० कालओ केवञ्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं अणंतं कालं अणंताओ ओसप्पिणिउसप्पिणीओ, खित्तओ अड्ढाइज्जा पुग्गलपरियट्टा बायरनिओए पुच्छा
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy