________________
५-तत्त्वतत्त्वम् गा-२२२, २२३
२८९
चक्रे० : सम्प्रत्यायुरिगाथायुग्ममाहुः - देव० : सम्प्रत्यायुरं बिभणिषुर्गाथायुग्ममाह -
बावीसइं सहस्सा सत्तसहस्साइं तिन्निऽहोरत्ता । वाए तिनि सहस्सा दसवाससहस्सिया रुक्खा।।२२२।। संवच्छराणि बारस राइंदिय हुंति अउणपन्नासा ।
छम्मास-तिनि-पलिया पुढवाईणं ठिउक्कोसा ।।२२३।। चक्रे० : वातवृक्षयोः साक्षादभिधानादन्ते च पृथ्व्यादीनामिति भणनात् पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियाणां नवानां क्रमेणैतदायुरुत्कृष्टं निरुपद्रवस्थाने ज्ञेयम्, जघन्यतस्तु सर्वेषामन्तर्मुहूर्त्तम्, अनन्तवनस्पतीनां तु द्विधाऽप्यन्तर्मुहूर्त्तमिति । ।२२२, २२३।।।
देव० : वातवृक्षयोः साक्षादभिधानादन्ते च पृथिव्यादीनामिति भणनात्पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियाणां नवानां क्रमेणैतदायुरुत्कृष्टमवगन्तव्यम् । तथा 'दसवाससहस्सिया' इत्यत्रोपात्तो वर्षशब्दः प्रथमगाथायां 'तिनिऽहोरत्ता' इत्येतद्विमुच्य सर्वत्र सम्बध्यते वृक्षग्रहणं च वनस्पतिमध्ये वृक्षाणामेवैतदायुर्भवतीति ज्ञापयति, न तु वल्ल्यादीनाम्, निरुपद्रवस्थानेषु च सर्वेषामेतदायुरवसेयम्, जघन्यतस्तु सर्वेषामनन्तवनस्पतीनामुत्कर्षतोऽपि चान्तर्मुहूर्त्तमिति गाथाद्वयार्थः ।।२२२, २२३ । ।
* प्रवचनसारोद्धारे-१०९६, १०९७ * सम्प्रति ‘एगिंदियविगलसन्निजीवाणं भवट्ठिइत्ति षडशीत्यधिकशततमं द्वारमाह -
बावीसई सहस्सा सत्तेव सहस्स तिनिहोरत्ता । वाए तिनि सहस्सा दसवाससहस्सिया रुक्खा ।। संवच्छराई बारस राइंदिय हुँति अउणपन्नासं ।
छम्मास तिनि पलिया पुढवाईणं ठिउक्कोसा ।। __ पृथिव्यादीनां मनुष्यपर्यन्तानां स्थितिरायुःप्रमाणरूपा एषा उत्कृष्टा, यथा-पृथिवीकायिकानां द्वाविंशतिवर्षसहस्राण्यप्कायिकानां सप्त वर्षसहस्राणि तेजस्कायिकानां त्रीणि रात्रिन्दिवानि वातेवातकाये त्रीणि वर्षसहस्राणि वृक्षा वनस्पतयो दशवर्षसाहस्रिकाः, किमुक्तं भवति ?
१. ठिइ उक्कोसा T,B,C