________________
२८८
रणम - सम्यक्त्वप्रकरणम
गोला य असंखेज्जा हुंति णिओआ असङ्घया गोले । एक्कक्के य निओए अणंतजीवो मुणयन्वो ।।
एवं वनस्पतीनां वृक्षादिप्रत्येकादिभेदात्तथा वर्णगन्धरसस्पर्शभेदात् सहस्राग्रशो विधानानि सङ्ख्येयानि योनिप्रमुखानि शतसहस्राणि भेदानामवसेयानीति, तथाहि-वनस्पतीनां संवृता योनिः, सा च सचित्ताचित्तमिश्रभेदात् त्रिधा, तथा शीतोष्णमिश्रभेदाञ्च, तथा प्रत्येकतरूणां दशलक्षा योनिभेदानाम्, साधारणानां च चतुर्दश, कुलकोटीनां द्वयोरपि पञ्चविंशतिकोटिशतसहस्राणीति ।।१४३।। चक्रे० : अन्येषामतिदेशमाहुः - देव० : अन्येषामतिदेशमाह -
आऊतेऊवाऊ एसिं सरीराणि पुढविजुत्तीए ।
दीसंति वणसरीरा दीसंति असंख संखेज्जा ।।२२१ ।। चक्रे० : आपस्तेजो वायुरेषां शरीराणि पृथ्वीयुक्त्याऽसङ्ख्येयानि मिलितानि दृश्यन्त इत्यर्थः । 'वणसरीरा दीसंति असंखेज्जा' साधारणवनस्पतिशरीराण्यसङ्ख्यानि, प्रत्येकवनस्पतीनां तु केषाञ्चिदसङ्ख्येयानि केषाञ्चिच्च सङ्ख्येयानि दृश्यन्ते।।२२१।।
देव० : आपस्तेजोवायुः, किमेषां शरीराणि पृथिवीयुक्त्या दृश्यन्तेऽसङ्ख्येयानि मिलितानीत्यर्थः । तथा 'वण'त्ति वनस्पतिजीवशरीराणि दृश्यन्तेऽसङ्ख्येयानि, सङ्ख्येयानि च, कोऽर्थः - साधारणवनस्पतीनामसङ्ख्यानि, प्रत्येकशरीराणां त्वसङ्ख्यानि केषाञ्चित्, केषाञ्चित्तु सङ्ख्येयानीतीह च प्रत्येकवनस्पतिं विमुच्यैकेन्द्रियाणां बादरणाममुलासङ्ख्यभाग एवोत्कृष्टतो जघन्यतश्च तनुमानं सूक्ष्माणामप्येतदेव, केवलमेतदसङ्ख्येयकं लघुतरमवसेयम्, प्रत्येकशरीराणां तूत्कृष्टतो योजनसहस्रं साधिकम्, जघन्यतस्त्वमुलासङ्ख्यभाग एतत्पुनरसङ्ख्यशरीराण्यसङ्ख्यसङ्ख्येयानि च दृश्यन्त इति ब्रुवाणेन सूचितम् । यद्येवं द्वीन्द्रियादीनां किमिति तनुमानं नाभिहितम् ? सत्यम्, अमीषां लोचनगोचरत्वेन सुज्ञेयत्वादस्माभिस्तु स्थानाशून्यार्थं किञ्चिदुच्यते -
तत्र सर्वेषामपि जघन्यतस्तावदगुलासङ्ख्यभागः, स पुनरपर्याप्तावस्थायां प्रारम्भकाले, उत्कृष्टतस्तु द्वीन्द्रियाणां द्वादश योजनानि, त्रीन्द्रियाणां गव्यूतत्रयम्, चतुरिन्द्रियाणां गव्यूतचतुष्टयम्, पञ्चेन्द्रियाणां तिरश्चां समूर्छिमानां गर्भजानां च योजनसहस्रम्, मनुष्याणां तु संमूर्छिमानामङ्गलासङ्ख्यभागः, गर्भजानां तु गव्यूतत्रयम्, देवानां सप्तरत्नयः, नारकाणां पञ्चधनुःशतीत्यलं प्रसङ्गेन, विस्तरार्थिना तु सङ्ग्रहण्यादिग्रन्थान्वेषणं विधेयमिति गाथाचतुष्टयार्थः ।।२२१।। १. एसि A.T,B,C, P २. संखिज्जा P