________________
५-तत्त्वतत्त्वम् गा-२१७
२८५
इत्यादि, आह-ननु मनश्चिन्तितोपनतस्वरूपचतुर्थोऽप्याहारो भवनपत्यादीनां संभवति स कस्मादिह नोक्तः, सत्यम्, किन्तु करादिनाऽप्रक्षिप्ता एवागन्तुकाः पुद्गला अत्राहारतया परिणमन्ति लोमाहारेऽप्ययमेवेत्येतावत्साम्याल्लोमाहारेऽन्तर्भावितत्वात्पृथगसावागमेऽपि नोक्त इत्यदोषः, तस्माद्विग्रहगत्यापन्नादिभ्यः शेषाः सर्वेऽपि जीवा यथोक्तस्वरूपं त्रिविधमाहारं यथासम्भवमाहारयन्त्येवेत्याहारका एवेति गाथार्थः ।।८२।।
* प्रवचनसारोद्धारे-१३१९ * इदानीं 'अणाहारया चउरो'त्ति त्रयस्त्रिंशदुत्तरद्विशततमं द्वारमाह -
विग्गहगइमावन्ना केवलिणो समोहया अजोगी य ।
सिद्धा य अणाहारा सेसा आहारगा जीवा ।। विग्रहगतिर्भवाद् भवान्तरे विश्रेण्या गमनं तामापन्नाः प्राप्ताः सर्वेऽपि जीवास्तथा केवलिनः समुद्धताः कृतसमुद्घातास्तथाऽयोगिनः शैलेश्यवस्थास्तथा सिद्धाः क्षीणकर्माष्टकाः, सर्वेऽप्येतेऽनाहाराः, एतद्व्यतिरिक्ताः शेषाः सर्वेऽप्याहारकाः, इह परभवं गच्छतां जीवानां गतिव॑िधा-ऋजुगतिविग्रहगतिश्च, तत्र यदा जीवस्य मरणस्थानादुत्पत्तिस्थानं समश्रेण्यां प्राञ्जलमेव भवति तदा ऋजुगतिः, सा चैकसमया, समश्रेणिव्यवस्थितत्वेनोत्पत्तिदेशस्याद्यसमय एव प्राप्तेः, नियमादाहारकश्चास्याम्, हेयग्राह्यशरीरमोक्षग्रहणान्तरालाभावेनाहाराव्यवच्छेदात्, यदा तु मरणस्थानादुत्पत्तिस्थानं वक्रं भवति तदा विग्रहगतिः, वक्रश्रेण्याऽन्तरालरूपेण विग्रहेणोपलक्षिता गतिविग्रहगतिरितिकृत्वा, तत्र विग्रहगत्योत्पन्ना उत्कर्षतस्त्रीन् समयान् यावदनाहारकाः, तथाहि-अस्यां वक्रगतौ स्थितो जन्तुरेकेन द्वाभ्यां त्रिभिश्चतुर्भिर्वा वकैरुत्पत्तिदेशमायाति, तत्रैकवक्रायां द्वौ समयौ, तयोश्च नियमादाहारकः, तथाहि-आद्यसमये पूर्वशरीरमोक्षस्तस्मिंश्च समये तच्छरीरयोग्याः केचित्पुद्गला जीवयोगालोमाहारतः । संबन्धमायान्ति, औदारिकवैक्रियाहारकपुद्गलादानं चाहारः, तत आद्यसमय आहारकः, द्वितीये च समय उत्पत्तिदेशे तद्भवयोग्यशरीरपुद्गलादानादाहारकः, द्विवक्रायां गतौ त्रयः समयाः, तत्राद्येऽन्त्ये च प्राग्वदाहारको मध्यमे त्वनाहारकः, त्रिवक्रायां चत्वारः समयाः, ते चैवं-त्रसनाड्या बहिरधस्तनभागादूर्ध्वमुपरितनभागादधो वा जायमानो जन्तुविदिशो दिशि दिशो वा विदिशि यदोत्पद्यते तदैकेन समयेन विदिशो दिशि याति द्वितीयेन त्रसनाडी प्रविशति तृतीयेनोपर्यधो वा याति चतुर्थेन बहिरुत्पद्यते, दिशो विदिश्युत्पादे त्वाद्ये समये त्रसनाडी प्रविशति द्वितीय उपर्यधो वा याति तृतीये बहिर्गच्छति चतुर्थे विदिश्युत्पद्यते, अत्राद्यन्तयोः प्राग्वदाहारको मध्यमयोस्त्वनाहारकः, चतुर्वक्रायां पञ्च समयाः, ते च त्रसनाड्या बहिरेव विदिशो विदिश्युत्पादे प्राग्वद्भावनीयाः, अत्राप्याद्यन्तयोराहारकस्त्रिषु त्वनाहारकः, तथा केवलिनः समुद्घातेऽष्टसामयिके तृतीयचतुर्थपञ्चमरूपान् केवलकार्मणयोगयुतांस्त्रीन् समयान्, अयोगिनः शैलेश्यवस्थायां हूस्वपञ्चाक्षरोच्चारणमात्रं, सिद्धास्तु सादिमपर्यवसितं कालमनाहारका इति ।।१३१९ ।।