________________
२८६
दर्शनशद्धिप्रकरणम् - सम्यक्त्वप्रकरणम
चक्रे० : उक्तं पर्याप्तिद्वारमथ तनुमानाऽवसरस्तत्र पृथ्वीकायानां तावदाहुः - देव० : सप्रसङ्गं पर्याप्तिद्वारमभिहितमथ तनुमानावसरस्तत्र पृथिवीकायानां तावदाह -
अद्दामलयपमाणे पुढविक्काए हवंति जे जीवा ।
ते पारेवयमित्ता जंबुद्दीवे न माइज्जा ।।२१८ ।। चक्रे० : सुगमा, नवरमाामलकं पीलुवृक्षमकुरः, पारेवयमित्ता पारापतमात्रतनवः ।।२१८ ।।
देव० : सुगमा, नवरमाामलकं पीलुवृक्षमकुरस्तथाऽ सत्कल्पनैवेयं मुग्धधियां सुखावबोधाय, यथा पारापतमात्राणि यदि तेषां शरीराणि स्युस्तदा जम्बूद्वीपे न मायुरिति । यावता ततो लघुतरशरीरा अपि सङ्ख्यातद्वीपसमुद्रेष्वपि च नैव मायुः, न चैतन्निरुपपत्तिकममी ह्यसङ्ख्याः , उत्कृष्टसङ्ख्येयकमपि चानुयोगद्वारेष्वनवस्थितशलाकाप्रतिशलाकामहाशलाकापल्यसर्षपैः प्ररूपयतैक एव चरमोऽनवस्थितपल्यः सङ्ख्येयद्वीपसमुद्रप्रमाणः प्रतिपादित इति गाथार्थः ।।२१८ ।।
चक्रे० : सम्प्रत्यपामाहुः - देव० : सम्प्रत्यपामाह -
एगंमि उदगबिंदुम्मि जे जीवा जिणवरेहिं पन्नत्ता ।
ते वि य सरिसवमित्ता जंबुद्दीवे न माइज्जा ।।२१९ ।। चक्रे० : स्पष्टा, केवलमुदकबिन्दुर्यावान् वालाग्रेऽवतिष्ठते तावान् ज्ञेयः, सर्षपप्रमाणभणनेन चात्र पृथ्वीतोऽपां सूक्ष्मत्वमुक्तमुत्तरोत्तरेण चैषां सर्वेषां सूक्ष्मत्वं ज्ञेयम्।।२१९ ।।
देव० : गतार्था, केवलमुदकबिन्दुर्यावान् वालाग्रेऽवतिष्ठते, सर्षपमात्रभणनेन चात्र पृथिवीकायिकशरीरेभ्योऽमीषां सूक्ष्मत्वमाह, एवमुत्तरोत्तरसूक्ष्मत्वम्, तेजोवाय्वनन्तवनस्पतिशरीरेष्वपि विज्ञेयम्, तत्पुनरसङ्ख्यगुणहीनतयेति गाथार्थः । ।२१९ ।।
१. अद्दामलगPK २. मयूरः AT,B,C३. स्थूल A ४. मायंति A