________________
दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम्
सोऽवश्यमेकेन समयेन विदिशो दिशमागच्छति द्वितीयेन नाडीं विशति तृतीयेनोर्ध्वलोकं व्रजति चतुर्थेन लोकनाडीतो निर्गत्योत्पत्तिस्थान उत्पद्यते, तदेवं त्रिविग्रहा चतुःसमया विग्रहगतिरियम्, अत्रापि पूर्ववदेकीयमतेनाद्येषु त्रिषु समयष्वानाहारकश्चतुर्थे त्वाहारकः, अन्यदीयमतेन तु मध्यमे वक्रसमयद्वय एवानाहारको न त्वाद्यन्त्यसमययोः, तदित्थमागमे जन्तूनां भवान्तरालगतिरियमेव चतुर्विधा प्रोक्ता - ऋजुगतिरेकविग्रहाद्विविग्रहा त्रिविग्रहा चेति, अन्ये त्वाहुश्चतुर्वक्रोपेता पञ्चसामायिकी अन्याऽप्यत्र गतिः संभवति, यदा त्रसनाडीबहिर्विदिशस्तद्बहिर्विदिश्येवोत्पद्यत इति, अत्र च समयत्रयं पूर्ववदेव, चतुर्थसमये तु नाडीतो निर्गत्योत्पत्तिस्थानस्य समश्रेणि प्रतिपद्यते, पञ्चमे तु नाडीबहिर्विदिग्लक्षणमुत्पत्तिस्थानमवाप्नोति, अत्राप्येकेषामाद्यसमयचतुष्टयेऽनाहारकः पञ्चमे त्वाहारकः, अन्येषां तु मध्यमे वक्रसमयत्रय एवानाहारको न तु प्रथमचरमसमययोः, उक्तञ्च- 'एकं द्वौ वाऽनाहारकः' (तत्त्वार्थ अ० २- सू० ३१) वाशब्दात्कदाचिन्त्रीन्वेति द्रष्टव्यम्, भाष्यकाराभिप्रायेण वाशब्दस्य एकस्य द्वयोश्च विकल्पार्थतयोन्नयनम्, अधिकस्य स्पष्टं तत्र निषेधात्, इयं च पञ्चसामयिकी गतिः कादाचित्कत्वादागमे नोक्ता, प्रायेणैकेन्द्रियाणामपीत्थमनुत्पत्तेरिति । तदेवं दर्शिता विग्रहगत्यापन्ना अनाहारकाः, इह च विग्रहगत्यापन्ना एवानाहारका इति नावधारणीयम्, सिद्धादीनामप्यनाहारकत्वाद् विग्रहगतावनाहारका एवेतीत्थमपि नावधार्यते, तस्यामपि केषुचित्समयेष्वनाहारकत्वस्यानुक्तत्वात्, तर्हि सर्वाणि वाक्यानि सावधारणानि भवन्तीति कथं नेतव्यमिति, उच्यते, क्रियतेऽवधारणं केवलं सम्भवदर्शनपरमयोगव्यवच्छेदेन विग्रहगतावनाहारकाः संभवन्त्येवेति, यथा नभसि पक्षी जाले मत्स्य इत्यादिष्वित्यलं विस्तरेण, तथा सयोगिनः केवलिनोऽपि समवहताः समुद्धाते वर्त्तमानास्तृतीयचतुर्थपञ्चमसमयेषु केवलकार्म्मणकाययोगावस्थायामनाहारकाः, एतच्चेहापि प्राक् किञ्चित्सविस्तरं प्रोक्तमेवेति, अयोगिकेवलिनः सिद्धाश्च पुनः सर्वथैवानाहारकाः, आहारग्रहणकारणौदारिकादिशरीरक्षुद्वेदनीयकर्मादेस्तेष्वभावादिति, उक्तशेषाः, पुनः सर्वेऽपि जीवा आहारका एवौजाहारलोमाहारप्रक्षेपाहारान्यतराहारग्रहणकारणसद्भावेन यथासम्भवमाहारयन्त्येवेतिकृत्वा, तत्रौजसा तैजसशरीरेण स्वसहचारिकार्म्मणशरीरान्वितेनाहारः सकारवर्णलोपादोजाहारः, अथवा ओजः स्वजन्मस्थानोचितशुक्रानुविद्धशोणितादिपुद्गलसंघातस्तस्याहार ओजाहारः, अयं चापर्याप्तावस्थायामेवान्तर्मुहूर्त्तं सर्वजन्तूनां द्रष्टव्यः, तथा लोमभिर्लोमरन्ध्रः शिशिरप्रावृट्कालादिभाविनां शीतजलादिपुद्गलानामाहरणं ग्रहणं लोमाहारः, अयं च पर्याप्त्युत्तरकालमाभवक्षयात्समस्तजीवानामवसेयः, तथा प्रक्षेपणं मुखे प्रवेशनं प्रक्षेपस्तेनौदनादेराहारः प्रक्षेपाहारः, अथवा प्रक्षिप्यत इति प्रक्षेप:ओदनकवलादिस्तस्याहारः प्रक्षेपाहारः, अयं च विकलेन्द्रियपञ्चेन्द्रियतिर्यङ्मनुष्याणामेव द्रष्टव्यः तेषामपि कादाचित्को न त्वविरहितः, उक्तञ्च
२८४
ओयाहारा जीवा सव्वे पज्जत्तया मुणेयव्वा । पज्जत्तया य लोमे पक्खेवे होंति भइव्वा ।। एगिंदियदेवाणं नेरइयाणं च नत्थि पक्खेवो । सेसाणं जीवाणं संसारत्थाण पक्खेवो ।।