________________
५- तत्त्वतत्त्वम् गा- २१७
२८३
"
इह भवान्तरप्रस्थितजीवस्यर्जुश्रेण्यपेक्षयाऽन्यस्या विशिष्टाया वक्रायाः श्रेणेर्ग्रहणं स्वीकरणं विग्रहः, वक्रश्रेण्यारम्भरूपं वक्रितमित्यर्थः तेन विग्रहेण परित्यक्तपूर्वशरीरस्य जन्तोर्भवान्तरोत्पत्तिस्थानाभिमुखं गमनं गतिर्विग्रहगतिस्तामापन्नाः प्राप्ता जन्तवोऽनाहारका इति सर्वत्र संबध्यते, तथा समवहताः समुद्धातवर्तिनो यथासम्भवं सयोगिकेवलिनः, अयोगिकेवलिनश्च सिद्धाश्चैते सर्वेऽप्यनाहारकाः, तथाहियदा जीवस्य मरणस्थानादग्रेतनभवोत्पत्तिस्थानमुपर्यधस्तिर्यग्वा समश्रेण्यां प्राञ्जलमेव भवति तदाऽयमेकेनैव समयेन तदवाप्नोति, ऋजुगतिश्चेयमुच्यते, आहारकश्चास्यां नियमाद् भवति, परित्याज्योपादेयशरीरमोक्षग्रहणसंस्पर्शभावेनाहरणीयपुद्गलानां व्यवच्छेदाभावादिति, यदा तु मरणस्थानादुत्पत्तिस्थानं किञ्चिद्वक्रं भवति यथेशानकोणोपरिभागादाग्नेयकोणाधस्तनभागस्तदा प्रथमसमय ईशानकोणोपरिभागादाग्नेयकोणोपरिभागं गत्वा तदधस्तनभागलक्षणस्योत्पत्तिस्थानस्य समश्रेणीं प्रतिपद्यते, जीवपुद्गलानामनुश्रेणिगमनात्प्रथमसमय एवोत्पत्तिस्थानप्राप्तेस्ततो द्वितीयसमये वक्रश्रेण्यन्तरारम्भरूपं विग्रहं विधाय तत्रोत्पत्तिस्थाने प्राणी समुत्पद्यत इति, इयं च विग्रहगतिरुच्यते, एकेन वक्रश्रेण्यन्तरारम्भरूपेण विग्रहेणोपलक्षिता गतिर्विग्रहगतिरितिकृत्वा, अस्यां चैकविग्रहायां द्विसमयायां विग्रहगतावाद्यसमये पूर्वशरीरस्य मुक्तत्वादग्रेतनस्य त्वद्याप्यप्राप्तत्वादनाहारक इति प्रज्ञप्त्याद्यागमानुसारिभिरभ्युपगम्यते, [पुस्तकान्तरे ‘परभवपढमे साडो' इति वचनाद् मुच्यमानं हि पूर्वशरीरमस्मिन्नाद्यसमये मुक्तमसारीभूतमित्यनाहारकोऽयमत्र क्रियाकालनिष्ठाकालयोरभेदवादिनिश्चयनयमतस्यैतैराश्रयणादिति तत्त्वार्थटीकाद्यनुसारिणस्तु
भावः ]
मन्यन्त अत्राद्यसमयेऽप्यनाहारकोऽसौ न भवति, पूर्वशरीरं ह्यत्र मुच्यमानं न मुक्तसद्भावापन्नमत एवायं पूर्वभवचरमसमय एव न तु परभवप्रथमसमयः, पूर्वशरीरस्याद्यापि सद्भावात्, तत्सद्भावे च न विद्यत आहारोऽस्येत्यनाहारक इति वक्तुमशक्यमेवेत्यनाहारकोऽयमिह न भवति, क्रियाकालनिष्ठाकालयोर्भेदवादिव्यवहारनयमतस्यैतैराश्रयणादितिहृदयम् इदं च मतद्वयमप्यत्र कथञ्चित्प्रमाणमुभयनयमतात्मकत्वाज्जिनमतस्येति, द्वितीयसमये तूत्पत्तिस्थानप्राप्तेराहारक एवेत्यत्राविवाद इति, यदा पुनर्मरणस्थानादुत्पत्तिस्थानं वक्रतरं भवति यथा तस्मादेवेशानकोणोपरिभागान्नैर्ऋतकोणाधस्तनप्रदेशस्तदा प्रथमसमये वायव्यकोणोपरिभागं गच्छति, ततो द्वितीयसमये विग्रहेण नैर्ऋतकोणोपरिभागमागच्छति, तृतीयसमये विग्रहेणैव तदधस्तनभागस्वरूपमुत्पत्तिस्थानमवाप्नोति, तदेवं विग्रहद्वयोपेता त्रिसमया विग्रहगतिरियं भाविता, न चैते त्रयः समया अनेनैव प्रकारेण संभवन्तीति प्रतिपत्तव्यम्, किन्तूक्तानुसारेण सुधियाऽन्यथाऽपि भावनीयाः, उपलक्षणमात्रत्त्वादस्य एवं पूर्वमुत्तरत्रापि च, इहापि पूर्वोक्तयुक्तिवशादाद्यसमयद्वयेऽ नाहारकस्तृतीयसमये त्वाहारक इति निश्चयनयवादिनो मन्यन्ते, व्यवहारनयवादिनस्तु प्रागुक्तयुक्तेरेवैकस्मिनैव मध्यमे विग्रहसमयेऽनाहारको न तु प्रथमचरमसमययोरिति प्रतिपद्यन्ते, तदेवं सर्वजीवानां भवान्तरप्रतिपत्तौ ऋजुगतिर्यथोक्तस्वरूपा द्विसमया त्रिसमया च विग्रहगतिरित्येतदेव गतित्रयं संभवति, अथैकेन्द्रियाणामेव विग्रहत्रयोपेता चतुःसमया विग्रहगतिर्या सम्भवति तद्भावना प्रतिपाद्यते - इह त्रसनाड्या बहिर्विदिग्व्यवस्थितस्य सतो यस्य निगोदादेरधोलोकादूर्ध्वलोक उत्पादो नाड्या बहिरेव दिशि भवति