SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २८२ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् इत्थं योगत्रयनिरोधं विधाय समुच्छिन्नक्रियमनिवर्तिशुक्लध्यानचतुर्थभेदं ध्यायन् ‘अइउऋलू' इत्येवंस्वरूपह्रस्वाक्षरपञ्चकस्वल्पप्रयत्नाद्रुताविलम्बितोञ्चारणकालं शैलेश इव शैलेशो मुनिनिरूद्धयोगतयात्यन्तस्थैर्येण तस्येयमवस्थेति व्युत्पादितशब्दां शैलेशीमनुभवति, तस्यामवस्थायामयोग्यनाहारकश्च भवतीति । तत्र च वेद्यायुर्नामगोत्रसत्कर्माणि युगपत्क्षपयत्यनेन न्यायेन तदसंखेज्जगुणाए गुणसेढीए रइयं पुरा कम्मं । समए समए खवियं कमसो सेलेसिकालेणं ।। [वि.आ.भा. ३०८२] तय संखेज्जगुणा इति । इहैकादश गुणश्रेणयस्तथाहि - १-सम्यक्त्वे २-देशविरतौ ३-विरतौ ४-अनन्तानुबन्धिवियोजने ५-दर्शनक्षपणे ६-मोहोपशमने ७-उपशान्तमोहत्वे ८-क्षपकत्वे ९-क्षीणमोहत्वे १०-सयोगिनि ११-अयोगिनि चेति । ततश्च तस्याः सयोगिगुणश्रेणेर्दलिकान्यपेक्ष्यासङ्ख्यगुणेति-सव्वं खवेइ तं पुण निल्लेवं किंचिदुवरिमे समये, किंचिच्च होइ चरिमेत्ति । ततः - देहत्रयविनिर्मुक्तः प्राप्यर्जुश्रेणिवीथिमस्पर्शाम् । समयेनैकेनाविग्रहेण गत्वोर्ध्वमप्रतिघः ।। [प्रशमरति-२८७] सिद्धिक्षेत्रे विमले जन्मजरामरणरोगनिर्मुक्तः । लोकाग्रगतः सिध्यति साकारेणोपयोगेन ।। [प्रशमरति-२८८] इति कृतं प्रसङ्गेनैवमेते सितं बद्धमिहाष्टविधं कर्म तदाध्मातं भस्मसाद्भूतमेषामिति सिद्धा ध्यानानलनिर्दग्धाष्टकर्मेन्धनाः, उक्तं हि - 'सियं धंतत्ति सिद्धस्स सिद्धत्तमुवजायइ ।' इति ते चानाहारकाः प्रथमश्चकारः पूर्वेषां सिद्धेभ्यो वैलक्षण्यख्यापको द्वितीयश्च समुच्चये, शेषा आहारं गृह्णन्तीति हलिकलिप्रभृतीनां गृह्णात्यर्थे कारितं तत आहारयन्तीत्याहारका इति गाथार्थः ।।२१७।। * जीवसमासप्रकरणे-८२ * विग्गहगइमावन्ना केवलिणो समुहया अजोगी य । सिद्धा य अणाहारा सेआ आहारगा जीवा ।। १. शेषा आहारयन्ती A
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy