________________
५-तत्त्वतत्त्वम् गा-२१७
कार्मणस्तस्मिन्नेव च समयत्रयेऽनाहारकस्तथा यद्यपि मन्थानकरणे कपाटन्यायेनौदारिकस्यापि व्यापारः सम्भाव्यते, तथापि 'कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये चेति' वचनादसौ कथञ्चिन्नास्तीति मन्तव्यमिति । योगिनो मनोवाक्कायव्यापारवन्तो न तथा निरुद्धयोगत्वादयोगिनः शैलेश्यवस्थामास्थिताः, तदध्यारोहणक्रमश्चायम् -
इह केवलज्ञानप्रादुर्भावादनन्तरमन्तर्मुहूर्त्तादि देशोनपूर्वकोट्यन्तं कालं केवली विहत्यान्तमुहूर्तावशेषायुः सूक्ष्मक्रियमप्रतिपातिशुक्लध्यानतृतीयभेदं ध्यायन् योगनिरोधमारिप्सुः प्रथममेव पर्याप्तमात्रजघन्यमनोयोगिसज्ञिमनोद्रव्यस्तद्व्यापारेभ्योऽसङ्ख्यगुणविहीनानि मनोद्रव्याणि तदव्यापारं च निरुन्धानोऽसङ्ख्यसमयैस्तत्सर्वनिरोधं करोति, उक्तं च
पज्जत्तमित्तसन्निस्स जत्तियाई जहन्नजोगिस्स । हुति मणोदव्वाइं तव्वावारो य जंमित्तो ।। तदसंखगुणविहीणे समये समये निरंभमाणो सो।।
मणसो सव्वनिरोहं कुणइ असंखेज्जसमएहिं ।। [वि.आ.भा. ३०५९, ६०] ततः पर्याप्तमात्रद्वीन्द्रियजघन्यवाग्योगपर्यायेभ्योऽसंख्यगुणहीनांस्तत्पर्यायाननुसमयं निरुन्धन्नसंख्यसमयैः सर्ववाग्योगनिरोधं करोति, यदभ्यधायि -
पज्जतमित्तबिंदिय जहन्नवयजोगपज्जया जे उ । तदसंखगुणविहीणे समए समए निरंभंतो ।। [वि.आ.भा. ३०६१]
सव्ववइजोगरोहं संखाईएहिं कुणइ समएहिं । तदनु च प्रथमसमयोत्पन्नसूक्ष्मपनकजघन्यकाययोगतोऽसङ्ख्यगुणहीनं काययोगं प्रतिसमयं निरुन्धन् देहत्रिभागं च मुञ्चन्नसङ्ख्येयसमयैरेव सर्वं निरुणद्धि उक्तं च
तत्तो य सुहुमपणगस्स पढमसमओववन्नस्स ।। जो किर जहन्नजोगो तदसंखिज्जगुणहीणमेक्केक्के । समए निरंभमाणो देहतिभागं च मुंचंतो ।। रुंभइ स कायजोगं संखाईएहिं चैव समएहिं ।
तो कयजोगनिरोहो सेलेसीभावतामेइ ।। [वि.आ.भा. ३०६२, ६३, ६४] १. मन्थकरणे A.T.B.C२. जोग T,B.C