________________
२८०
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
अयोगिनश्च सिद्धिगमनकाले पञ्च हुस्वाक्षरोश्चारणमात्रं कालं निरुद्धतनुमनोवाग्योगाः सिद्धाश्चाऽनाहाराः, शेषा आहारका जीवाः । ।२१७ ।।
देव० : समुदायार्थः स्पष्टः, अवयवार्थस्त्वयम्-विग्रहणं विग्रह आनुपूर्वीकर्मोदयात्स्खलनं वक्रीभवनमिति यावत्, तेन गतिविग्रहगतिः, इह हि भवान्तरं गच्छतामसुमतां द्वयोगति ऋजुर्वक्रा च, तत्र जीवपुद्गलयोरनुश्रेणिगमनाद्यदा श्रेणिस्थमुत्पादस्थानं भवति तदर्जुगत्यैकेनैव समयेन गच्छति तस्मिन्नेव चाहारग्रहणं यदा तु विश्रेणिस्थं तदा वक्रमेकं द्वे त्रीणि वा सम्भवन्ति, केचिञ्चत्वारीति भणन्ति तत्रैकं वक्रं द्वाभ्याम्, द्वे तु त्रिभिः, त्रीणि तु चतुर्भिश्चत्वारि तु पञ्चभिः समयैः, तत्पुनरित्थम् -
विदिसाउ दिसिं पढमे बीए पविसरइ नाडिमज्झंमि ।
ऊ8 तइए तुरिये य नीइ विदिसिं तु पंचमए ।। [ ] इति तत्र चाद्यसमये मोक्तव्यशरीराहारः, पर्यन्तसमये त्वागामिशरीराहार आहारपर्याप्तिसमयत्वात्तस्य, मध्यमेषु त्वेकद्वित्रिसमयेषु यथाक्रमं द्विवक्रादिषु केवलकार्मणयोग्यानाहारकः, व्याख्याप्रज्ञप्त्यभिप्रायस्त्वाद्यसमयात्प्रभृत्येवानाहारकस्त्रिवत्रैव च विग्रहगतिरिति, तथा केवलिनः सम्यक् समन्तत उत्प्राबल्येनात्मप्रदेशान् घ्नन्ति प्रतिक्षिपन्ति स्मेति, यदिवा घ्नन्ति वेद्यनामगोत्रपुद्गलान् शातयन्ति स्मेति समुद्धताः सूत्रत्वादलोपः, समुद्घातं गता इत्यर्थः । स चेत्थमुत्पन्नदिव्यज्ञान आयुषोऽल्पत्वं वेदनीयस्य प्राचुर्यमवधार्य तत्समतापादनाय दण्डादिक्रमेण चतुर्दशरज्ज्वात्मकं लोकमात्मप्रदेशैरापूरयति । तत्र प्रथममेवावर्जीकरणमान्तमौहूर्तिकमुदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपमभ्येति तदनु -
दण्डं प्रथमे समये (स्वदेहविष्कम्भमूर्ध्वमधश्च लोकान्तगामिनं) कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु ।। संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे ।।
सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ।। [प्रशमरति-२७३, २७४] इह जीवप्रदेशानां दण्डतया प्रक्षेपे संहारे चौदारिककायव्यापारादौदारिककाययोग एव, द्वितीयषष्ठसप्तमेषु पुनः प्रदेशानां प्रक्षेपसंहारयोरौदारिके तस्य च बहिः कार्मणे वीर्यपरिस्पन्दादौदारिककार्मणमिश्रः, तृतीयचतर्थपञ्चमेष तु बहिरौदारिकात्कार्मणकायव्यापारादसहायः १. प्रथमे समये दण्डं A,T,B.C