________________
५- तत्त्वतत्त्वम् गा - २१७
चक्रे० : आहारादिपर्याप्तयोऽभिहितास्तत्किं जीवाः सर्वेऽप्याहारका एव किं वा नेत्याहुः - देव० : आहारपर्याप्तिरभिहिता, तत्किं जीवाः सर्वेऽप्याहारका एव किं वा नेत्याह - विग्गहगइमावन्ना केवलिणो समुहया अजोगी य ।
सिद्धा य अणाहारा सेसा आहारगा जीवा । । २१७ । ।
c
२७९
चक्रे० : विग्रहगतिः समयभाषया वक्रगतिरुच्यते, इह भवान्तरे गच्छतां द्वे गती ऋजुर्वक्रा च, तत्र जीवपुद्गलयोरनुश्रेणिगमनादनुश्रेणिस्थ उत्पत्तिस्थान ऋजुगत्यैकेनैव समयेन गच्छति, तस्मिन्नेव चाऽऽहारं गृह्णाति, विश्रेणिस्थे तु द्वित्रिचतुर्वक्रां गतिमापन्ना आद्यसमये मोक्तव्यशरीराहाराः, अन्त्यसमय आगामिशरीराहारा मध्यमेषु त्वेकद्वित्रिसमयेषु यथासङ्ख्यमनाहाराः । वक्राणि चेत्थम् -
विदिसाउ दिसं पठमे बीए पविसरइ नाडिमज्झमि । उड्डुं तइए तुरिए य नीइ विदिसं तु पंचमए ।। [ ]
तथा केवलिनः सम्यक् समन्तत उत्प्राबल्येनाऽऽत्मप्रदेशैश्चतुर्दशरज्वात्मकं लोकाकाशं घ्नन्ति । धातूनामनेकार्थत्वात् पूरयन्ति स्मेति समुद्धताः समुद्घातं गता इत्यर्थः । ते ह्यायुषोऽल्पत्वं वेदनीयस्य च प्राचुर्यं ज्ञात्वा तत्समीकरणायाऽष्टसामयिकं समुद्धतं कुर्वन्ति । तद्विधिश्चायम् -
दण्डं प्रथमे समये [स्वदेहविष्कम्भमूर्ध्वमधश्च लोकान्तगामिनम् ] कपाटमथ चोत्तरे तथा समये ।
मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु ।।
संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे ।
सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ।। [प्रशमरति-२७३, २७४]
अत्र तृतीयचतुर्थपञ्चमसमयेष्वनाहारकाः केवलकार्मणयोगित्वाद्विग्रहगताविव वक्रसमयेषु । यदुवाच वाचकः
औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः ।
मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ।।
कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च ।
समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ।। [ प्रशमरति २७५, २७६]