________________
२७८
रणम - सम्यक्त्वप्रकरणम
परिणमय्य मुञ्चति साऽऽनापानपर्याप्तिः, ५-यया पुनर्भाषावर्गणाद्रव्यमादाय भाषारूपतया परिणमय्य मुञ्चति सा भाषापर्याप्तिः, ६-यया तु मनःप्रायोग्यवर्गणाद्रव्यमादाय मनस्त्वेन परिणमय्य मुञ्चति सा मनःपर्याप्तिः, तदेवं गाथापूर्वार्द्धमध्योपात्तपर्याप्तिशब्दस्य सर्वत्र योजनात् षट् पर्याप्तयोऽवगन्तव्याः । आह-किं सर्वेषामपि जीवानां सर्वा अप्येताः पर्याप्तयः प्राप्यन्ते ? नेत्याह-'चत्तारि' इत्यादि, इह यथासङ्ख्येन सम्बन्धः, तद्यथा-आद्याश्चतस्र एवैकेन्द्रियाणाम्, भाषामनसोस्तेष्वभावात्, विकलशब्देन चात्र मनोविकला गृह्यन्ते, ते च पारिशेष्यात् द्वित्रिचतुरिन्द्रिया असज्ञिपञ्चेन्द्रियाश्च लभ्यन्ते, तेषामाद्याः पञ्चेव पर्याप्तयः, न तु मनःपर्याप्तिर्मनसस्तेष्वभावादिति, सज्ञिपञ्चेन्द्रियाणां पुनः षडपि पर्याप्तयः प्राप्यन्ते, मनसोऽपि तेषां सद्भावादिति गाथार्थः ।।२५।।
* प्रवचनसारोद्धारे-१३१७ * आहार-सरीरिंदिय-पज्जत्ती आणपाण भासमणे ।
चत्तारि पंचछप्पिय एगिंदियविगलसन्नीणं ।। पर्याप्तिर्नाम आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः, सा च पुद्गलोपचयादुपजायते, किमुक्तं भवति ?-उत्पत्तिदेशमागतेन प्रथमं ये गृहीताः पुद्गलास्तेषां तथाऽन्येषामपि प्रतिसमयं गृह्यमाणानां तत्संपर्कतस्तद्रूपतया जातानां यः शक्तिविशेषः-आहारादिपुद्गलखलरसादिरूपतापादनहेतुयथोदरान्तर्गतानां पुद्गलविशेषाणामाहारपुद्गलखलरसरूपतापरिणमनहेतुः शक्तिविशेषः सा पर्याप्तिः, सा च षोढा, तद्यथा-आहारपर्याप्तिः शरीरपर्याप्तिरिन्द्रयपर्याप्तिः प्राणापानपर्याप्तिर्भाषापर्याप्तिर्मनःपर्याप्तिश्च, तत्र १-यया शक्त्या करणभूतया जन्तुर्बाह्यमाहारमादाय खलरसरूपतया परिणमयति साऽऽहारपर्याप्तिः, २-यया रसीभूतमाहारं रसासृग्मांसमेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः, ३-यया तु धातुरूपतया परिणमितादाहारादेकस्य द्वयोस्त्रयाणां चतुर्णां पञ्चानां वेन्द्रियाणां प्रायोग्यानि द्रव्याण्युपादायैकद्वित्र्यादीन्द्रियरूपतया परिणमयति सेन्द्रियपर्याप्तिः, ४-यया पुनरुच्छासयोग्यवर्गणादलिकमादायोच्छ्वासरूपतया परिणमय्यालम्ब्य च मुञ्चति सा प्राणापानपर्याप्तिः, ५-यया तु भाषाप्रायोग्यदलिकमादाय भाषात्वेन परिणमय्यालम्ब्य च मुञ्चति सा भाषापर्याप्तिः, ६-यया पुनर्मनोयोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमय्यालम्ब्य च मुञ्चति सा मनःपर्याप्तिः, आह-किं सर्वेषामपि जीवानां सर्वा अप्येताः पर्याप्तयः प्राप्यन्ते ?, नेत्याह-'चत्तारी त्यादि, इह यथासङ्ख्येन सम्बन्धः, तद्यथाआद्याश्चतस्र एवैकेन्द्रियाणां भाषामनसोस्तेष्वभावात्, विकलशब्देन चात्र मनोविकला गृह्यन्ते, ते च पारिशेष्याद् द्वित्रिचतुरिन्द्रिया असंज्ञिपञ्चेन्द्रियाश्च लभ्यन्ते, तेषामाद्याः पञ्चैव पर्याप्तयो न तु मनःपर्याप्तिः मनसस्तेष्वभावादिति, संज्ञिपञ्चेन्द्रियाणां पुनः षडपि पर्याप्तयः प्राप्यन्ते, मनसोऽपि तेषां सद्भावादिति, एताभिश्च स्वस्वयोग्यपर्याप्तिभिरपर्याप्ता एव ये कालं कुर्वन्ति तेऽप्याद्यपर्याप्तित्रयं समाप्य ततोऽन्तर्मुहूर्तेनायुर्बद्ध्वा तदनन्तरमबाधाकालरूपमन्तर्मुहूर्तं जीवित्वैव च म्रियन्त इति ।।१३१७ ।।