________________
५-तत्त्वतत्त्वम् गा-२१६
२७७
देव० : १-तथाविधाहारपुद्गलग्रहणपरिणमनसामर्थ्यमाहारपर्याप्तिः, २-औदारिकादिशरीरत्रयप्रायोग्यपुद्गलद्रव्याणां ग्रहणे औदारिकादिशरीररूपतया परिणमने च शक्तिविशेषः शरीरपर्याप्तिः, ३-यथासम्भवमेकद्वयादीन्द्रियप्रायोग्यपुद्गलानामादाने तत्तद्रूपतया परिणमने च सामर्थ्यमिन्द्रियपर्याप्तिः, ४-आनापानोचितद्रव्याणां ग्रहणे तद्रूपतया व्यापारणे च शक्तिरानापानपर्याप्तिः, ५-सत्यासत्यादिचतुर्विधभाषाहेतुपुद्गलानां ग्रहणे तद्रूपतया परिणमने निस्सरणे च सामर्थ्य भाषापर्याप्तिः, ६-मनःसमुचितपुद्गलानामवलम्बने मनोरूपतया परिणमने मनने च सामर्थ्य मनःपर्याप्तिः, इह च कृतद्वन्द्वस्याद्यपदत्रयस्य पर्याप्तिशब्देन सह षष्ठीतत्पुरुष उत्तरपदत्रये च द्वन्द्वैकवद्भावाद्विषयसप्तम्येकवचनमिह च वैक्रियाहारकशरीरिणां शरीरपर्याप्तिरान्तमौहूर्तिकी, शेषास्तु सामयिक्यः । औदारिकशरीरिणां त्वाहारपर्याप्तिरेव सामयिकी, शेषास्तु प्रत्येकमान्तमौहूर्त्तिक्य इति । __ अथ पुनः केषां कियत्य इत्याह-चतस्र आहारशरीरेन्द्रियानपानलक्षणाः, पञ्च भाषान्विताः, षडपि च मनःसमन्विताः, क्रमेणैकेन्द्रियाश्च विकलाश्च द्वित्रिचतुरिन्द्रियाऽसज्ञिस्वरूपाः सञ्जिनश्च, तेषामेता अपि च यथास्वपरिपूर्णाः पर्याप्तनामकर्मोदयवतामेव भवन्ति, केवलमपर्याप्ता अपि ये म्रियन्ते, तेऽप्युच्छासादिपर्याप्तिभिरेव विज्ञेया न तु शरीरेन्द्रियपर्याप्तिभ्याम्, यतः परभवायुष्कं बद्ध्वा म्रियन्ते तच्च शरीरेन्द्रियादिपर्याप्त्या पर्याप्तैर्बध्यत इति गाथार्थः ।।२१६।।
___ * जीवसमासप्रकरणे-२५ * आह-नन्वत्र सार्द्धगाथया सूक्ष्मबादरैकेन्द्रियद्वित्रिचतुरिन्द्रियसंग्यसंज्ञिपञ्चेन्द्रियलक्षणाः सप्तापि जीवभेदाः पर्याप्तापर्याप्तविशेषणाभ्यां विशेषिताश्चतुर्दशविधत्वेनोक्तास्तत्कास्ताः पर्याप्तयो यद्योगात्पर्याप्ता भवन्ति यद्वैकल्यात्त्वपर्याप्तत्वमासादयन्तीत्याशक्य प्रसङ्गतः पर्याप्तिस्वरूपनिरूपणाद्यर्थमाह
आहारसरीरिंदियपज्जत्ती आणपाण भासमणे ।
चत्तारि पंचछप्पिय एगिदियविगलसण्णीणं ।। इहाहारादिपुद्गलग्रहणपरिणमनहेतुः शक्तिविशेषः पर्याप्तिः सा च साध्यभेदात्षोढा, तद्यथा१-ययाऽऽहारपुद्गलानादाय खलरसरूपतया परिणमयति साऽऽहारपर्याप्तिः, २-यया तु रसीभूतमाहारं रसासृग्मांसमेदोऽस्थिमज्जाशुक्ररूपसप्तधातुतया परिणमयति सा शरीरपर्याप्तिः, ३-यया तु धातुभूतमाहारमिन्द्रियतया परिणमयति सेन्द्रियपर्याप्तिः, ४-यया त्वानापानवर्गणाद्रव्यमादायानापानत्वेन