________________
वाक्यं किञ्चिद् विवक्षितम्
यो मालवोपात्तविशिष्टतर्कविद्याऽनवद्यः प्रशमप्रधानः । विद्वज्जनालिश्रितपादपद्मः केषां न विद्यागुरुतामधत्त ? ।। (२) समस्तभद्रसूरिः एतद्विषये दर्शनशुद्धिवृत्तिकृद्देवभद्रसूरिराह - शिष्यस्तस्य समन्तभद्रगणभृत्सोऽ भूज्जगदीपकः । । (३) चक्रेश्वरसूरिः प्रस्तुतटीकाया आरम्भकर्ता, एतस्य षट्सूरिशिष्यमण्डली नाममात्रेण तु प्रस्तुतवृत्तिप्रशस्ती सुदर्शनैव, तेषु षट्सु सूरिषु प्रथमं (A) सुमतिसिंहाचार्यं तमेव संभावयामि हि यस्माद् वि. १२३६ वर्षे पत्तनपुरे सार्धपौर्णमिकगच्छ: प्रादुर्भूतस्तद्व्यतिकरलेशस्त्वेवम् “पौर्णमिकानामाग्रहद्वयी शास्त्राऽमान्येति परमार्हतश्रीकुमारपालेन भूभुजा ज्ञाते पौर्णमिकप्रसारः स्वपत्तने तेन निरुद्धः, वि. १२२९ वर्षे दिवं गताः श्रीकलिकालसर्वज्ञपादास्तदनु च प्रायः षण्मास्या परमार्हतस्य स्वर्लोकप्रयाणम्, तत आसन्नपञ्चसु वर्षेष्वितेषु पत्तने को वृत्तान्तः ? इत्यवगम श्रीसुमतिसिंहसूरिरायातः केनचित् पृष्टश्च भवान् पौर्णमिकः ?' उत्तरितञ्चाऽनेनाऽदम्योत्साहवशेन सहसा ‘सार्धपौर्णमिकोऽहम्' अर्थात् न केवलं पौर्णमिक एवाऽहम्, किन्तु केनाप्यप्रधृष्यत्वेनाऽर्धाधिकोऽस्मीति " इदमेव सार्धपौर्णमिकमतोत्पत्तिकारणं प्रवचनपरीक्षाऽनुसारेण । तृतीय (C) त्रिदशप्रभसू. शि. तिलकप्रभशि. धर्मप्रभ शि. अभयप्रभशि.रत्नप्रभसू.शि. कमलप्रभेण वि. १३७२ वर्षे श्रीपुण्डरीकचरित्रं संददृभे । " श्रीमता मुनिचन्द्रसूरिणा वि. ११६८ वर्षे देवेन्द्रनरकेन्द्रप्रकरणस्य नन्दिसूत्रोल्लिखितविमानप्रज्ञप्तिनरकविभक्तिप्रभृतिप्रकीर्णोद्धाररूपस्य वृत्तिर्निर्मिता, सा च चक्रेश्वरसूर्यादिभिः संमिल्य विशोध्य प्रामाणिककक्षां गमिता" इत्युलेखेषु श्रूयमाणस्तथा चक्रेश्वरसूरिपरमानन्दसूर्योरुपदेशेन वि. १२२१ वर्षे लिपीकृतः श्रीनेमिचन्द्रसूरिकृतरत्नचूडकथाया य आदर्शोऽधुनोपलभ्यते तत्राप्युल्लिखितश्चक्रेश्वरसूरिरयमेव इति संभावयाम्यहम् ।
૨૯
(४) देवभद्रसूरिः, श्रीधर्मघोषसूरिणां लघुसहोदर श्रीविमलगणिराजस्य शिष्यः, प्रस्तुतग्रन्थोपरि चाऽष्टात्रिंशच्छत श्लोकमानटीकाया निर्माता च ।
(५) यशोघोषसूरिः, एतस्य शिष्यरत्नेन श्रीहेमप्रभसूरिणा हरिपालमन्त्रिविज्ञप्त्या विमलसूरिकृतप्रश्नोत्तररत्नमालाटीका वि. १२४३ वर्षे विरचिता ।
(६) सुमतिभद्रसूरिः, एतच्छिष्यजयन्द्रशि. भावचन्द्रशि. चारित्रचन्द्रशि. मुनिचन्द्रशि. विद्यारत्नेन वि. १५७७ वर्षे कूर्मापुत्रचरित्रं संदृब्धम्, हर्षकुलगणिना च तच्छोधितम् ।
इत्येवमादयो धर्मघोषसूरिभिः सूरिपदे प्रतिष्ठापिता इतोऽपि बहवः सूरिधुरन्धरा उपलभ्येरन् इतिहासपरिश्रमिणाम्, का शक्तिर्मे तत्परिश्रमाय ?
अथ सविनयं सानन्दं सबहुमानं सादरं संदृश्यतां तिलकाचार्य:, अस्य खलु ज्ञानलवदुर्विदग्धानां ज्ञानित्वमदं विगालयन्त्य:, विदुषां वैदुष्यमलङ्कारयन्त्यः, कवीनां काव्यप्रौढिं विकासयन्त्यः, तार्किकाणामस्खलितधीप्रचारं जनयन्त्यः, आगमिकानां तत्त्वसन्देहमपसारयन्त्यः, ऐतिह्यविदां वृत्तान्तजिज्ञासां संतोषयन्त्यः परः सहस्रप्रयोगवैविध्येऽपि वैयाकरणानामपप्रयोगशोधनकण्डूं वन्ध्यामेव विदधत्यः येषां केषाञ्चनाऽज्ञानिनामपि चेतांस्याह्लादयन्त्यः कृतयः पङ्क्तिमात्रेणाऽपि ज्ञाता अमन्दमानन्दं जनयन्ति, अनुभवन्तु तल्लेशं भवन्तोऽपि
वन्दे वीरं तपोवीरं तपसा दुस्तपेन यः । शुद्धं स्वं विदधे स्वर्णं स्वर्णकार इवाऽग्निना । । १ । । जनप्रवचनं नौमि नवं तेजस्विमण्डलम् । यतो ज्योतींषि धावन्ति हन्तुमन्तर्गतं तमः ।।२।।
29