________________
૨૮
वाक्यं किञ्चिद् विवक्षितम्
शिष्यप्रशिष्या अपि विद्वन्मतल्लिकाभिरपि स्पृहणीयप्रतिभाविलासा बभूवुस्तदपि किञ्चिदवलोकिष्यामहे। शिष्यप्रशिष्यादि सन्तानहदयेऽस्य सबहुमानं सगौरवं, समहिमं च प्रतिष्ठाऽऽसीदिति निष्टङ्कनाय बहुषु प्रमाणेषु सत्स्वप्येकमममचरित्रकृता श्री मुनिरत्नसूरिणा वि. १२२५ वर्षे स्तुतं पद्यमत्रोध्रियते - गोभिर्दर्शनशुद्धि योऽकषायस्वादुभिर्व्यधात् । सोऽपूर्वाऽभ्युदयः श्रीमान् नन्द्याच् चन्द्रप्रभः प्रभुः ।।
अहो केयं काव्यबन्धचातुरी गुरुभक्तिपरिप्लाविता !!! चन्द्रस्तु पदार्थविलोकनेऽवरुन्धन्ति तमांसि कषायरसाभिः स्वप्रभाभिर्विशोधयति - दूरमपास्यति, पूर्वस्या एव दिशश्च तस्योदयः, तदुदयश्च कृष्णपक्षेषु क्रमशः क्षीयमाणताया जनकः सन् नाऽभ्युदयत्वेन ख्यापयितुं शक्यतेऽस्माभिः । अस्माकं परमगुरुस्तु चन्द्रप्रभाचार्यः कषायरसेतरस्वादु - मधुररसाभिः गोभिः-वाणीभिः दर्शनशुद्धिं व्यधात्, अस्मादृशां वाक्षु माधुर्यं कामहास्यरत्यादिमोहनीयजनितम्, अस्मद्गुरुस्त्वकषायस्वादुवाग, अनन्यसाधारणसमन्तत-उन्नीयमानोदयश्च, अतश्चन्द्रस्तिष्ठतु, प्रथमं तु चन्दप्रभप्रभुरेव नन्द्यात् ।
महिमा खलु चन्द्रप्रभसूरिवरेण्यस्य कियान् प्रसृत्वर आसीत्तदवबुद्धये त्वेक एवोल्लेख: पर्याप्तस्तथाहि - चन्द्रप्रभसू.शि. देवप्रभसू.शि.तिलकप्रभसू.शि.वीरप्रभसू.शि. अजितप्रभसूरिणा वि. १३०७ वर्षे विरचितश्रीशान्तिनाथचरितप्रशस्त्या ज्ञायते यचन्द्रावतीनगर्यां नवगृहचैत्ये श्रीमदुपदेशमालाटीका संदृभ्यतश्चन्द्रगच्छीयश्रीजयसिंहसूरेश्चैत्यवासतो वैराग्यं समुजागरितम्, उद्भूताऽद्भूतवैराग्यश्च स स्ववैराग्योपष्टम्भनक्षमं श्रीचन्द्रप्रभसूरिं संशिश्रियिवान्' इति।
'पुत्रादिच्छेत् पराजयम्' इति नीतिवाक्यं खलु श्रीचन्द्रप्रभजीवने चरितार्थीभूतमुपलभ्यते, यतस्तच्छिष्याग्रेसरस्य श्रीधर्मघोषसूरिशानस्य माहात्म्यं ततोऽप्यधिकं प्रासार्षीदित्यनुमानयन्ति भूयांसि स्तुतिपद्यानि, तेभ्यः कानिचित् - धर्मघोषसूर्यनुजविमलगणिशिष्यो देवभद्रसूरिः दर्शनशुद्धिवृत्तिप्रशस्तौ - एतत्पट्टधुरन्धरः शमनिधिः श्रेष्ठस्तपः शालिनां प्रहः श्रीजयसिंहभूपतिशिरोरत्नांशुधौतक्रमः । अर्हच्छासनवार्धिवर्धनविधौ ताराधिनाथोऽभव-द्रव्याम्भोजवनप्रबोधनरविः श्री धर्मघोषप्रभुः ।।
श्रीमास्तिलकाचार्य आवश्यकलघुवृत्ती... यत्पादपद्मे कलहंसलीलां दधौ नृपः श्रीजयसिंह देवः । हेमप्रभसूरिः वि. १२४३ वर्षनिर्मितप्रश्नोत्तररत्नमालावृत्तिप्रशस्तौ श्रीचन्द्रप्रभसूरिपट्टतिलको निर्ग्रन्थचूडामणिर्जज्ञे श्रीजयसिंहभूपतिनुतः श्रीधर्मघोषप्रभुः...। मुनिरत्नसूरिरममचरित्रे सूरिः श्रीधर्मघोषोऽभूत् तत्पट्टे देवताकृतिः सिद्धराजस्तुतः कर्ता स्वमूर्तेः सूरिविंशतः, निष्ठामतीतविषयामपि वर्तमाने, व्युत्पादयन् विरचयन् गुणवत्सु वृद्धिम्। सूत्रार्थयुक्तिकलनासु विशुद्धबुद्धिर्यः शब्दसिद्धिमकरोदपरप्रकाशः ।।
अत्र यदुपान्त्यपद्योल्लिखितम् ‘स्वसमाना विंशतिस्सूरयोऽनेन निष्पादिताः' इति, तद् उदारतानिष्कम्पसात्त्विकतयोः प्रकर्षप्रतिकमेव, ततोऽधिकं किं दिदृक्षिष्यते महात्मनां महिमाऽऽधिक्यप्रतीत्यै ? तेभ्य: विंशतेः केचन साम्प्रतमपीतिहासग्रन्थेष्वलङ्काररूपे नाम धारयन्ति तथाहि - (१) समुद्रघोषसूरिः, एतस्य विषयेऽतिशयोक्तिशून्यां स्तुतिमाहाऽममचरित्रकृत् -
28