________________
वाक्यं किञ्चिद् विवक्षितम्
कविसार्वभौमस्तिलकाचार्य : टीका खल्वत्रत्या कञ्चिदारम्भभागं विना समस्ता तिलकाचार्यस्यैवास्ति इति ज्ञायते, “सोऽहं वृत्तिं प्रगुरुभिरिमां कर्तुमारब्धमात्रां तत्पादाब्जस्मरणमहसा मुग्धधीरप्यकार्षम्" इति प्रशस्तिगततत्पद्येनैव।
यदा ह्यसौ कथां प्रारभते तदा समाप्तिपर्यन्तं तादृशं रसमासिक्तवान् येन श्रोताजनोऽन्तरोत्थातुमन्यचित्तो वा भवितुं नैव शक्नोति, अलङ्काराणां याथात्म्येन घटकता, प्रकाण्डवैयाकरणरञ्जकता, अस्खलितप्रतिभा, इष्यवनतभूजा जलप्रवाहवनिरन्तरायार्थाधिगमकता । यथास्थानप्रयुज्यमानशब्दपर्यायता, अपुनरुक्ततादीर्घानुसंधानाऽत्रुटिततादिषु नैकमपि गुणं श्रीतिलकाचार्यरचनाशैल्याः वर्णयितुं मेऽस्ति बुद्धिशक्तिः, तत्तु कविपुण्डरीका मादृक्षु कृपामाधाय विधास्यन्ति, अहं त्वेतावदेव जानामि श्रीतिलकाचार्यकृतयो विद्वन्मूर्धन्यमूर्धानोऽपि धूनयन्तीति।
दृष्टचरा वृत्तयः- इतोऽन्ये द्वे टीका मदृष्टिपथमायाते स्तः । तृतीया चेयम् । तत्र प्राचीना श्रीविमलगणिनामद्यावध्यमुद्रिता एल.डी. भाण्डागारादौ च विद्यमानाऽस्ति । मध्यकालीना श्रीदेवभद्रसूरीणां मुद्रिताऽस्ति। तृतीया तु प्रस्तुतैषा श्रीतिलकाचार्याणाम्। त्रयोऽपि टीकाकाराः श्रीचन्द्रप्रभसूरीश्वरसन्तानीया एव, ___ पौर्णमिकमतविहङ्गावलोकनम् :- श्रीमद्वीरप्रभुपञ्चमगणधर श्रीमत्सुधर्मस्वामिपट्टपरम्परायां चत्वारिंशत्तमो गच्छनायकोऽस्माकं सर्वेषां गुरुत्वङ्गतोऽगाधगुणगरिमान्वितः श्रीमान् मुनिचन्द्रसूरिवैक्रममदऋषिशशिविधु (=११७८) शरदि गौर्जरनगरराजे पत्तने स्वर्ग जगाम । अस्य परमतारकगुरोरुपदेशपदवृत्ति-धर्मबिन्दुविवरणा-ऽनेकान्तजयपताकाटीकाद्या विद्वञ्चित्तचकोरचन्द्रायमाणा आसन्नपञ्चविंशतयः कृतयः साम्प्रतं समुपलभ्यन्ते। अमुं गुरुवरं प्रति नैकैर्ग्रन्थकारैर्वास्तवं बहुमानं प्रकटितमस्ति, तेभ्यः कस्यचिदेकस्योल्लेखस्तपागच्छपट्टावलीतो लेशेनाऽत्राऽवलोक्यतेसौवीरपायीति तदेकवारिपानाद् विधिज्ञो बिरुदं बभार, जिनागमाम्भोनिधिधौतबुद्धिर्यः शुद्धचारित्रिषु लब्धरेखः। संविज्ञमौलिविकृतीश्च सर्वास्तत्याज देहेऽप्यममः सदा यः, विद्वद्विनेयाऽभिवृतः प्रभावप्रभागुणौधैः किल गौतमाभः ।।
एतस्य खलु गीतार्थमूर्धन्यश्रीगुरोरदूष्यवैदुष्यदिगन्तकीर्तयो भूरय: शिष्या आसन्, तेभ्यो नैयायिकादिदर्शनषट्कतार्किकधुरन्धराणां मस्तकानि धूनयामासुषः, पत्तने सिद्धराजजयसिंहसभायां दिगम्बरवादिमणिकुमुदचन्द्राय घोरपराजयं प्रददुषः, चतुरशीतिश्लोकप्रमितस्याद्वादरत्नाकरविवरणविशदीकृतप्रमाणनयतत्त्वालोकालङ्कारग्रन्थसर्जनेन कस्मैचनाऽप्यध्येत्रेऽद्यापि नियमतो लक्ष्यवेधियुक्तिकलापाऽमोघधनुर्धारितां लीलया वितरत: परमपूज्यस्य वादिदेवसूरीश्वरस्य न नाम जैनशासने प्रविष्टपूर्वरेवाऽनाकर्णितपूर्वमित्येव न, अपि तु सत्तर्कमन्विष्यन्मात्रैजैनेतरैरपि सरोमाञ्चोद्गमं श्रुतचरम् । प्रस्तुतग्रन्थकृतां श्रीचन्द्रप्रभसूरीणामयं श्रीमुनिचन्द्रसूरिर्लघुगुरुभ्राता "यतयश्चैत्यप्रतिष्ठाया अनधिकारिण एव, पाक्षिक प्रतिकान्तिश्च पूर्णिमायामेव (=पञ्चदश्यामेव)" इत्याग्रहद्वयेन कालवैचित्र्याच् श्रीचन्द्रप्रभसूरिवरतो निधियमरुद्र (११५९) मितवैक्रमाब्दे प्रादुर्भूतं पौर्णमिकमतं शमयितुं भृशं प्रयेतानः, तत्प्रयत्नांशरूपा च पाक्षिकसप्ततिरत्र ग्रन्थसमाप्त्यनन्तरं परिशिष्टे संद्रक्ष्यते वाचकगणैः। __ प्रस्तुतग्रन्थस्य निर्माता श्रीचन्द्रप्रभसूरिराट् तर्कशास्त्रेष्वपि स्वैरविहारी = अस्खलितबुद्धिप्रचारः आसीदिति निश्चिन्वन्ति केचन विद्वांसः साम्प्रतोपलभ्यमानतनिर्मितप्रमेयरत्नकोषाऽऽख्यग्रन्थनिरीक्षणेन । अस्य
27