________________
૨૬
वाक्यं किञ्चिद् विवक्षितम्
'दर्शनशुद्धि रिति। अपरञ्च प्रस्तुतटीकाकृत्समानश्रीचक्रेश्वरसूरिसन्तानीयैः समुद्घोषितम् 'सम्यक्त्वप्रकरणम्' इति, तन्मूलं चाऽनुसंधत्ते श्रीमास्तिलकाचार्य: प्रस्तुतटीकान्तभागे "एतां दर्शनशुद्धिं - सम्यक्त्वमिति प्रसिद्धोल्लापननामिकां सर्वे भव्याः पठन्तु" इति । तिलकाचार्यटीकासमेतस्य चाऽस्य सम्यक्त्वरत्वमहोदधिरित्यभिधानमस्याष्टीकाया: सर्जनानन्तरं कियता कालेन प्रचारमितम् ? तत्र ज्ञायते वैक्रम १५०४ तमे वर्षे लिखितादर्श तु तन्नामप्रचारमितमिवैव विलोक्यते। सम्यक्त्वप्रकरणे यानि रत्नानि देवसाधुमार्गधर्मतत्त्वानि पञ्च तदुपलक्षितानि चाऽसङ्ख्येयानि, तेषामेकत्र चिरकालपर्यन्तसंचयनायाऽस्य महोदधितुल्यत्वात् ।
सटीकस्याऽस्य प्रामाण्यम् : पौर्णमिकगच्छारम्भकः सन्नपि मूलकृत् - "पूर्णिमायामेव पाक्षिकप्रतिक्रान्तिः", "श्रावका एव चैत्यप्रतिष्ठाकारकाः", "..." इत्यादिभ्यो मान्यताभ्योऽत्र न शब्दाकारं दत्तवान्, नाऽपि च टीकाकृदपि। इतोऽग्रे प्रामाणिकतायाश्चिह्न किमन्वेष्टव्यम् ? यद्यप्येकं स्थलं विद्यते टीकायाः सदर्थाननुकूलं तद्यथा -
"अयं च द्रव्यस्तवः सावद्यरूपत्वान्न यतेयोग्य इति प्रतिपादनायाहुःछण्हं जीवनिकायाण संजमो जेण पावए भंगं । तो जइणो जगगुरुणो पुप्फाइयं न इच्छति ।।११।। (मार्गतत्त्वे) षण्णां जीवनिकायानां संयमो येन प्राप्नोति भङ्गं ततो यतेर्जगद्गुरवस्तीर्थकरा: पुष्पादिकं उपलक्षणत्वात् सर्वं द्रव्यस्तवं नेच्छन्ति = नानुजानन्ति" इति । तथाऽप्येतत्संमार्जनीयम्, प्रवचनपरीक्षातृतीयविश्रामाद्यनुसारेण यथा हि -
"वस्तुगत्या विचारे कुसुमादिजिनपूजायां सावद्यतया निर्वचनम्, तन्निष्ठुरं वचनम् । 'पूजा कुसुमादिना तर्हि साधूनां स्वयमपि युक्ता कर्तुम्' इति पराशङ्कावचनम्, एतदपि दुर्वचनम् । यद्यनिरवद्यं तत्तत्साधुभिः स्वयमपि करणीयमित्येवं नियमो नास्ति, यस्माद्, निरारम्भतयोपवर्णितोऽपि द्वादशव्रतसामायिकपौषधश्राद्धप्रतिमाधुञ्चारः साधूनां नास्ति, अथवा जिनकल्पिकानां परस्परमपि वैयावृत्त्यम् = अशनादिदानसंवाहनादिरूपं केन हेतुना जिनैर्निषिद्धम् ? तत्र सावद्यसंभावनाया अप्यसंभवात् । पूजायाः सावद्यत्वस्वीकारे श्रावकैः पुष्पादिना विहिता सा पूजा साधूनामुपदेशाऽनुमोदनाविषयो न स्याद्, यतः साधूनां सावद्यं = सपापमनुष्ठानं मनोवाक्कायकृतकारिताऽनुमतिभिर्हेयं वर्तते, नहि साधवः सावद्यमुपदिशन्ति न वाऽनुमोदन्ते, अब्रह्मसेवादेरप्युपदेशादिविषयत्वापत्तेः । यथा महाव्रतेषु अणुव्रतादिगृहिधर्मः संक्रान्तस्तथा (जिनाज्ञया सर्वद्रव्यत्यागरूपे) पञ्चममहाव्रते (जिनाज्ञानुसारेण देशतो द्रव्यात्यागरूपा जिनस्य कुसुमादिना) पूजा किं न संक्रान्ता ? अपि तु संक्रान्ता (एव) । जिनप्रतिमानां प्रतिष्ठा जतत्समक्षं मुनिगुरुभिः कर्तव्या त्रैलोक्यपूजाहेतुत्वाद् गणधरप्रतिष्ठावद्, व्याप्तिग्रहस्त्वेवम् - यद्यत् त्रैलोक्यपूजाकारणं तत् तत् मुनिगुरुणैव विधेयम्, यथा गणधरपदप्रतिष्ठा, न पुनर्गृहिकृत्यं त्रैलोक्यपूज्यत्वहेतुर्भवति ।"
न चैतावदंशविद्यमानतामात्रेण श्रीमत्तिलकाचार्यकृतेरप्रामाण्यं घोषयितुमुचितम् गुरुनियोगादनाभोगाद्वा मिथ्या श्रद्दधानेऽपि सम्यक्त्वसंभवस्य कर्मप्रकृत्यादिप्रसिद्धत्वात्।
अस्माकं प्रगुरूणामपि प्रगुरुभिर्विजयदानसूरीश्वरै “विविधप्रश्नोत्तरे" स्वग्रन्थेऽस्वाध्यायिपाठ्याऽपाठ्य सूत्रविभागस्पष्टीकरणप्रसङ्गे खरतरगच्छमान्यताप्ररूपकस्यापि सन्देहदोलावलिग्रन्थस्य साक्षितया सबहुमानमुल्लिखितत्वाञ्च।
26