________________
30
वाक्यं किञ्चिद् विवक्षितम्
प्रणमाम्यात्मगुरूंस्तान् घनसारशलाकयेव यद्वाचा। अज्ञानतिमिरपूरितमुद्घटितमान्तरं चक्षुः ।। ३ ।। जीतकल्पवृत्तौ जिनभद्रगणिं स्तौमि क्षमाश्रमणमुत्तमम् । यः श्रुताज्जीतमुद्दधे शौरिः सन्धोः सुधामिव ।।४ ।। आवश्यकवृत्तौ ।। शय्यंभवस्य श्रुतरत्नसिन्धोः सर्वस्वभूतं दशकालिकं यत् ।
उद्घाट्य बह्वर्थसुवर्णकोशं तद् भव्यसुग्राह्यमहं करोमि ।। ५ ।। दशवैकालिकवृत्तौ ।।
अत्राऽऽह कश्चिद् “दशवैकालिकतो महार्घाणि श्रुतरत्नानि शय्यंभवाऽऽत्मकेऽर्णवे नाऽऽसन्नित्येकोऽनर्थस्तथा द्वितीयश्चाऽर्थग्राहणाशक्त्यभिमानरूपश्च सत्कविदोषः कथं नाऽत्र पद्ये ?" इति । स खलु प्रष्टव्यः "मनकमुनिः षण्मास्यैव चतुर्दशपूर्वसारमाप्नुयादितीच्छया निष्पन्ने सूत्रे किमु शय्यंभवात्मकश्रुतसागरसारभूताऽतिशयोक्तिः ? नैव, यथेतरेऽपि कवयः
काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला । तत्रापि यश्चतुर्थोऽङ्कस्तत्र श्लोकचतुष्टयम् ।।
इति, अथवा
मुखमर्धं शरीरस्य सर्वं वा मुखमुच्यते । ततोऽपि नासिका श्रेष्ठा नासिकायाश्च लोचने ।।
इति श्लोके किमु सर्वकाव्यसारभूतता कालीदासीयाऽभिज्ञानशाकुन्तलतुर्याङ्कगतचतुःश्लोक्याम्, तथा सर्वतनुसारभूतताऽक्षियुगले साऽतिशयोक्तिः ? नैव, किं तर्हि ? यथास्थितार्थनिर्देशः, तथा दशवैकालिकेऽपि श्रुतसागरस्य सर्वस्वभूततां किं नाऽभ्युपैषि ? तथा बहुष्वर्थेषूपयुज्यमानं सुवर्णं बह्वर्थसुवर्णम्, तस्य (= तेन निर्वृतः) कोश: = बह्वर्थसुवर्णकोशः अनन्तार्थद्योतकसदक्षरविन्यासरूपो दशवैकालिकग्रन्थः तस्मिन् हि श्रुतसागरसर्वस्वभूतान्यर्थरत्नानि निबिडभृतानि, तं कोशसमं दशवैकालिकमहमुद्घाटयामि उद्घाट्य च यथा भव्यबालैरपि तदर्थाः सुखेन गृह्येरंस्तथा सरलपद्धत्या तद्ग्राहणायै प्रयसिष्यामीत्यभिधेयनिर्देशनं शिष्टाचाररूपमपि भवतः किं कुक्षिशूलायते ?
=
नूनमित्थमप्रधृष्य विद्यामहानदीनां शरणभूतस्य वादिपर्वतसंनिपतनैरप्यसंक्षुब्धस्य तिलकाचार्यपयोनिधेर्बिन्दुसमाः सर्वा अपि कृतयः सोत्साहमीक्षितव्यास्सन्ति । तासां च प्राप्यमाणानां नामानि यथा -
वि. १२६२ वर्षे पत्तेयबुद्धचरियं । वि. १२७४ वर्षे जीतकल्पवृत्तिः । वि. १२७७ वर्षे प्रस्तुता सम्यक्त्वप्रकरणवृत्तिः। वि. १२९६ वर्षे आवश्यकवृत्तिः । वि. १३०४ वर्षे सामाचारी । श्राद्धप्रतिक्रमणसूत्रवृत्तिः। साधुप्रतिक्रमणसूत्रवृत्तिः । पाक्षिकसूत्रावचूरिः । पाक्षिकक्षामणकावचूरिः । श्रावकप्रायश्चित्तसामाचारी। पौषधिकप्रायश्चित्तसामाचारी । चैत्यवन्दनालघुवृत्तिः । दशवैकालिकसूत्रवृत्तिः ।
इत्थं
'खलु पौर्णमिकगच्छः समच्छविदुषामाकर आसीदित्यनुमीयते ।
30
- मुनितपोरत्नविजयः । (वर्तमाने पू. आ. श्री. विजय तपोरत्नसूरीश्वराः) वैक्रम-२०४१ तमवर्षे वैशाखशुक्लपूर्णिमायां गुरुवासरे
धोराजी नगरे (प्राक् प्रकाशितप्रतितरुद्धता)