________________
२७४
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
व्याख्यानात् स्वाङ्गुलयोजनानीत्युभयत्राऽपि ज्ञेयम्, नव योजनाऽऽगतानि गन्धादीनि, द्वादश योजनाऽऽगतश्च शब्दो विषय इत्यभिप्रायः । अङ्गलाऽसङ्खयभागवर्ती त्वितरो जघन्यविषयः सर्वेषाम्, सोऽपि व्याख्यानाञ्चक्षुर्वर्जानामिति ज्ञेयम्, अतिसंनिकृष्टस्य तेनाऽनुपलम्भात्, तथा च भाष्यम् -
अवरमसंखिज्जंगुल भागा उ नयणवज्जाणं ।
संखिज्जयभागा उ नयणस्स मणस्स न विसयपमाणं ।। [ ] तथेह स्वाङ्गुलयोजनलक्षोऽप्यभासुरद्रव्यमपेक्ष्य चक्षुर्विषयत्वेनोक्तः, भासुरं त्वाश्रित्य सातिरेकैकविंशतियोजनलक्षाणि, तथा चोक्तम् -
लक्खेहिं एक्कवीसाए साइरेगेहिं पुक्खरद्धम्मि ।
उदये पेच्छंति नरा सूरं उक्कोसए दिवसे ।। [वि.आ.भा. - ३४५] कर्कसंक्रान्तिदिने।।२१३।।
देव० : स्वाङ्गुलमात्माङ्गुलं तेन निष्पन्नानि योजनानि तेषां लक्षः समधिकः सातिरेकः, नव द्वादश च व्याख्यानात् स्वाङ्गलयोजनानीत्यत्रापि पदद्वयेऽपि सम्बध्यते, उत्कृष्यत इत्युत्कर्षः सर्वबहुरित्यर्थः । विषयो ग्रहणयोग्यता क्रमेण चक्षुश्च, त्रयाणां परिशिष्टानां स्पर्शनरसनघ्राणानां समूहस्त्रिकं च, श्रोत्रं च तेषामिह च योजनलक्षादीनामाकाशदेशत्वेनेन्द्रियाविषयत्वात् तद्गतपुद्गलद्रव्याणामेव विषयत्वमुन्नेयमाधाराधेययोरभेदोपचाराच्चेत्थं भणनमिति । अङ्गलासङ्ख्यभागवर्ती त्वितरो जघन्यविषयः, सर्वेषां व्याख्यानान्नयनवर्जानामिति ज्ञेयम्, चक्षुषस्तु सङ्ख्येयभागवत्येव, अतिसनिकृष्टस्य तेनानुपलम्भात्, तथा च भाष्यम् -
अवरमसंखिज्जंगुलभागाओ नयणवज्जाणं ।
संखिज्जइ भागाओ नयणस्स मणस्स न विसयपमाणं ।। [ ] इति ।। तथेह समधिकः स्वाङ्गलयोजनलक्षश्चक्षुर्विषयोऽभासुरद्रव्यमधिकृत्य, भासुरं तु द्रव्यमेकविंशतियोजनलक्षेभ्योऽपि परतः पश्यन्ति, यथा पुष्करद्वीपार्द्ध मानुषोत्तरनगप्रत्यासन्नवर्तिनः कर्कसङ्क्रान्तौ सूर्यबिम्बं तथा चोक्तम् -
लक्खेहिं एक्कवीसाए साइरेगेहिं पुक्खरद्धम्मि ।
उदये पेच्छंति नरा सूरं उक्कोसए दिवसे ।। [वि.आ.भा० ३४५] इति गाथार्थः ।।२१३।। १. लक्षं समधिकं सातिरेकं A