________________
५-तत्त्वतत्त्वम् गा - २१२, २१३
मस्सूरए य थिए सूइ पडागा अणेगसंठाणा । पुढविदगअगणिमारुयवणस्सईणं च संठाणा । । २१२ । ।
चक्रे० : मसूरको धान्यविशेषः, स्तिबुको जलबिन्दु:, सूचीपताके प्रतीते, अनेकानि च विचित्रद्रव्याणि, तद्वत् संस्थानमाकारो येषां तानि यथासङ्ख्यं पृथिव्युदकाग्निमारुतवनस्पतीनां संस्थानानि वपुः पुद्गलरचनाविशेषाः । । २१२ । ।
,
देव० : मसूरकश्च धान्यविशेषः, एकारः प्राकृतप्रभव एवमुत्तरत्रापि, स्तिबुकश्च जलबिन्दुः, सूची च प्रसिद्धा, पताका च ध्वजोऽनेकानि च विचित्रद्रव्याणि तेषां संस्थानान्याकारा येषां तानि, तथा क्रमेण पृथिव्युदकाग्निमारुतवनस्पतीनां चः पुनरर्थे, संस्थानानि वपुः पुद्गलरचनाविशेषाः, प्राकृतत्वात् पुंस्त्वम्, तदिदमत्र तात्पर्यम् - पृथिवीजीवशरीरसंस्थानं मसूरकाकारमब्जीवतनुसंस्थानं स्तिबुकाकारमित्यादि नेयमिति गाथार्थः । । २१२ । ।
* जीवसमासप्रकरणे - ५२*
यदत्रैकेन्द्रियाणां हुण्डसंस्थानं तत्पृथिव्यादीनां मसूराद्याकारभेदतो भिन्नं द्रष्टव्यमिति दर्शयति मस्सूरए य थिबुगे सूइ पडागा अणेगसंठाणा । पुढविदगअगणिमारुयवणस्सईणं च संठाणा ।।
२७३
चक्रे० : अथ जीवगतेन्द्रियविषयमाहुः
देव० : अथ जीवाधिकार एव यावद् दूरादिन्द्रियाणां स्वविषयग्राहकत्वमाह
-
मसूरो मालवकादिप्रसिद्धो मसूरकाकारो धान्यविशेषस्तदाकारं शरीरसंस्थानं 'पुढवि'त्ति पृथ्वीकायिकानां द्रष्टव्यम्, स्तिबुको बिन्दुस्तदाकारं 'दग' त्ति उदककायिकानाम्, सूच्याकारमग्निकायिकानाम्, पताकाकारं वायुकायिकानाम्, 'वणस्सईणं च संठाणं' त्ति, च पूर्वोक्तापेक्षया समुच्चये, वनस्पतीनां च शरीरस्य संस्थानान्यवयवरचनात्मिकान्यनेकाकाराणि भवन्तीत्यर्थः, इति गाथार्थः ।। ५२ ।।
संगुलजोयणलक्खो समहिओ नव बारसुक्को विसओ । चक्खुत्तियसोयाणं अंगुलअस्संखभागियरो । । २१३ ।।
चक्रे० : चक्षुस्त्रिकश्रोत्राणामुत्कर्ष उत्कृष्टो विषयः । तत्र चक्षुषः स्वाङ्गुलनिष्पन्नयोजनलक्षः साधिकः, त्रिकस्य स्पर्शनरसनघ्राणरूपस्य नव, श्रोत्रस्य द्वादश,
१. भागीयरो A