________________
२७२
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
देव० : पृथिव्युदकाग्निमारुतानन्तवनस्पतय इह च विचित्रत्वात्सूत्रस्य विशेषणस्य परनिपातः, पञ्चेन्द्रियाश्च प्रत्येकं चतुर्धा, चकारमन्तरेणापि समुच्चयोऽवगम्यते, इतीह चशब्दो नोक्तः, यथा -
अहरहर्नयमानो गामश्वं पुरुषं पशुम् ।
वैवस्वतो न तृप्यति सुराया इव दुर्मदी ।। [ ] तत्र पृथिव्यादयः सूक्ष्मबादरपर्याप्तापर्याप्तभेदात्पञ्चेन्द्रियास्तु सङ्ग्यसञ्जिपर्याप्तापर्याप्तभेदादिति षण्णां चतुर्भिस्ताडनाच्चतुर्विंशतिः । तथा 'वणपत्तेय'त्ति सूत्रत्वादेव प्रत्येकवनस्पतयो 'विगलत्ति विकलेन्द्रिया द्वित्रिचतुरिन्द्रिया द्विविधा इत्यष्टौ, सर्वेऽपि पूर्वोत्तरसंमीलनाद् द्वात्रिंशत्, एते च सर्वेऽपि सामान्येन व्यवहार्यव्यवहारिभेदाद् द्विविधास्तत्र सूक्ष्मानन्तवनस्पतयो व्यवहारिणोऽव्यवहारिणश्च, शेषास्तु सर्वेऽपि व्यवहारिण एव । इत्थं च विचित्रप्रकारैः प्रतिपादितं जीवस्यैव सम्यग्परिज्ञानमुखेन शेषतत्त्वपरिज्ञानार्थम्, यतः -
एको भावः सर्वथा येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टाः ।
सर्वे भावाः सर्वथा येन दृष्टा एको भावस्तत्त्वतस्तेन दृष्टः ।। [ ] अत एव प्राणादिद्वाराण्यप्यभिधास्यतीति गाथार्थः ।।२११ ।। चक्रे० : इह द्वीन्द्रियादिसंस्थानानि साक्षादेव दृश्यन्ते पृथ्व्यादीनां तु सूक्ष्मत्वादलक्ष्याणीति तान्याहुः -
देव० : इह तावद् द्वीन्द्रियादिसंस्थानानि नानाप्रकाराणि साक्षादेव दृश्यन्ते, पृथिव्यादिशरीराणां त्वतिसूक्ष्मत्वान्न ज्ञायन्ते कीदृशानीति शिष्यजिज्ञासायां तत्संस्थानान्याह -
१. तन्त्रवृत्तेः A,T,B,C २. प्रत्येकशः T,B,C
३. एवेति कृतमात्मनो भेदप्रपञ्चनम्, प्रसङ्गात् स्वरूपं ब्रूमः । तथाहि- आत्मा शरीरव्यापी, तेन सह कथञ्चिद्भिन्नाभिन्नः, प्रतिदेहं चैक एव, एकस्य सुखदुःखाद्यनुभवेऽन्येषां तथानुपलम्भाद्, न तु विभुः, शरीर एव तल्लिङ्गभूतचैतन्योपलम्भात्, नाप्यङ्गष्टपर्वाद्यधिष्ठानः सर्वशरीरव्यापितया चैतन्योपलब्धेः । तथा नैकान्तेन नित्यः, एवं हि पूर्वक्रियाकर्तृत्वस्वरूपापरित्यागादुत्तरक्रियाकर्तृत्वं न स्याद् नाप्येकान्तेनानित्यः, द्वितीयादिसमयेषु सर्वथाऽभावप्रसङ्गादैहिकामुष्मिकसमस्तव्यवहारविलुप्तेश्च, यदुक्तम् - तित्तीसमो किलामो सारक्खविपक्खपव्वयाईणि । अज्झयणं झाणं भावणाय कासव्वणासंमि ।। तस्माद द्रव्यार्थतया नित्यः पर्यायार्थतया त्वनित्य इति । A