________________
५-तत्त्वतत्त्वम् गा-२११
२७१
* पञ्चसंग्रहे-८२ * एगिंदियसुहुमियरा सन्नियर पणिंदिया सबितिचऊ ।
पज्जत्तापज्जत्ताभएणं चोद्दसग्गामा ।। (स्वो०)-एकेन्द्रियाः सूक्ष्माः सूक्ष्मनामकर्मोदयादितरे तद्विपक्षभूता बादरा बादरकर्मोदयिनः, संज्ञिनः समनस्का इतरेऽसंज्ञिनोऽमनस्का उभयेऽपि पञ्चेन्द्रियाः, द्वित्रिचतुरिन्द्रिया: स्वस्वनामकोदयिन एते सप्त पर्याप्तकाः, एत एव सप्ताऽपर्याप्तकाः, अपर्याप्तनामकर्मोदयाल्लब्ध्यपर्याप्तकाः, पर्याप्तनामकर्मोदयिनो यद्यपि करणापर्याप्तकास्तथापि पर्याप्तकवद् द्रष्टव्याः, एतानि चतुर्दश स्थानान्यखिलजीवसङ्ग्राहकाणीति गाथार्थः ।।८२।।। (मलय०)-तदेवमुक्तमल्पबहुत्वम्, तदभिधानाच्च कृता सत्पदादिप्ररूपणा । अतीवगहनाप्येषा सत्पदादिप्ररूपणा । प्रज्ञापनाप्रसादेन विवृत्ता लेशतो मया ।। यद्गदितमल्पमतिना किमपि विरुद्धं जिनागमवचोभिः । विद्वद्भिस्तत्त्वज्ञैः प्रसादमाधाय तच्छोध्यम् ।।
साम्प्रतं यदुक्तं 'चउदसविहावि जीवा' इति, तञ्चतुर्दशत्वं जीवानां प्रतिपादयन्नाह-सूक्ष्माः सूक्ष्मनामकर्मोदयिनः, इतरे बादरा बादरनामकर्मोदयिन एकेन्द्रियाः, तथा संश्यसंज्ञिभेदभिन्नाः पञ्चेन्द्रियाः 'सबितिचऊ' सद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः, एवं सप्त जीवसङ्घाता भवन्ति । एते च सर्वेऽपि प्रत्येकं पर्याप्तापर्याप्तभेदेन भिद्यमाना द्विधा, ततः सर्वसंख्यया चतुर्दशग्रामाः प्राणिसङ्घाता भवन्ति, एते च प्रागेव सप्रपञ्चं प्ररुपिताः, इति नेह भूयः प्ररुप्यन्ते ।।८२।। चक्रे० : पुनः प्रकारान्तरेण जीवभेदानेवाहुः - देव० : पुनः प्रकारान्तरेण जीवभेदानेवाह -
पुढविदगअगणिमारुयवणस्सईणंता पणिंदिया चउहा ।
वणपत्तेया विगला दुविहा सव्वेवि बत्तीसं।।२११।। चक्रे० : पृथिव्युदकाग्निमारुताऽनन्तवनस्पतयः सूक्ष्मेतरपर्याप्तापर्याप्तभेदात् । पञ्चेन्द्रियाः संश्यसंज्ञिपर्याप्तापर्याप्तभेदात्, प्रत्येकं षडपि चतुर्द्धा । 'वणपत्तेय' त्ति प्रत्येकवनस्पतयः, विकला द्वित्रिचतुरिन्द्रियाः पर्याप्तापर्याप्तभेदाद् द्विविधाः सर्वेऽपि मेलिता द्वात्रिंशत्।।२११ ।।
१. वणसइणंता PK वणसयणंता A