________________
२७०
चक्रे० : तथा
देव० : अन्यच्च
-
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
एगिंदिय सुहुमियरा सन्नियरपणिदिया सबितिचऊ । पज्जत्तापज्जत्ताभेएणं चउदसग्गामा ।। २१० ।।
१
चक्रे० : एकेन्द्रियाः सूक्ष्मेतराः, सूक्ष्मनामकर्मोदयात् सूक्ष्माः सकललोकव्यापिनो निरतिशयिनामदृश्याः, इतरे बादरनामकर्मोदयाद् बादराः प्रतिनियतस्थानवर्तिनः २, तथा सञ्ज्ञिनो मनोविज्ञानवन्तः ३, इतरे चाऽसञ्ज्ञिनः पञ्चेन्द्रियाः ४, सद्वित्रिचतुरिन्द्रियाः सप्त, सर्वे पर्याप्तापर्याप्तभेदेन चतुर्दश ग्रामा इव ग्रामा जीवनिवासस्थानानीत्यर्थः । । २१० ।।
देव० : एकेन्द्रियाः सूक्ष्मेतराः सूक्ष्मनामकर्मोदयात्सूक्ष्माः सकललोकव्यापिनो निरतिशयानामदृश्याः, इतरे बादरनामकर्मोदयाद् बादराः प्रतिनियतस्थानवर्त्तिनः, तथा सञ्ज्ञिनश्च मनोविज्ञानवन्तः, इतरे चासञ्ज्ञिनः पञ्चेन्द्रियाः, 'सबितिचऊ'त्ति सूचनात्सूत्रस्य सह द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियैर्वर्तन्त इति सद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः, द्वीन्द्रियादिभिः सहिताः पूर्व इत्यर्थस्ते च पर्याप्तापर्याप्तभेदेन चतुर्दश, दीर्घत्वं प्राकृतत्वात्, ग्रामा अवयवे समुदायोपचाराद् भूतग्रामा जीवस्थानानीत्यर्थ इति गाथार्थः ।। २१० ।।
* आवश्यकनिर्युक्तौ 'प्रतिक्रमण' अध्ययनस्य संग्रहणिगाथायाम्-१ * भूतानि जीवास्तेषां ग्रामाः समूहा भूतग्रामास्तैः, ते चैवं चतुर्दश भवन्ति
-
एगिंदिय सुहुमियरा सण्णियर पणिदिया य सबीतिचऊ । पज्जत्तापज्जत्ताभेएणं चोद्दसग्गामा ।।
एकेन्द्रियाः पृथिव्यादयः सूक्ष्मेतरा भवन्ति, सूक्ष्मा बादराश्चेत्यर्थः, संज्ञीतराः पञ्चेन्द्रियाश्च, संज्ञिनोऽसंज्ञिनश्चेति भावना, ‘सबीतिचउत्ति सह द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियैः, एते हि पर्याप्तकापर्याप्तकभेदेन चतुर्दश भूतग्रामा भवन्ति ॥ | १ ||
१. चउदसट्ठाणा A २. ग्रामा इव ग्रामाः विवक्षित समुदायसाधर्म्येण T, B, C