SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ५- तत्त्वतत्त्वम गा - २०९ प्रथमद्वितीयपदाभ्यां कृत्वा तृतीयचतुर्थपदयोरर्थयोजना कर्तव्या । सा चैवम् - चेअणत्ति चेतनालक्षणो जीव इति जीवस्य लक्षणं क्रियते तदैक एव जीवस्य भेदः । यतः सूक्ष्मनिगोदजीवेष्वपि श्रीप्रज्ञापनादिसूत्रेष्वक्षरस्यानन्ततमो भागः प्रतिपादितोऽस्ति । २६९ द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियजीवास्त्रसाः वनस्पतिजीवा एकेन्द्रिया इति विवक्षया जीवा द्विविधाः । 1 इयरित्ति इतरेऽपरे पृथिव्यप्तेजोवायु केचित्पुरुषवेदाः केचित्स्त्रीवेदाः केचिन्नपुंसकवेदास्तत्र देवाः पुरुषवेदाः स्त्रीवेदाश्च । मनुष्याः पञ्चेन्द्रियतिर्यञ्चश्च केचित् पुरुषवेदाः केचित् स्त्रीवेदाः केचिन्नपुंसकवेदाश्च । तेभ्यः शेषाः पृथिव्यप्तेजोवायुवनस्पतिद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियनारका नपुंसका एवं विवक्षया त्रिविधा जीवाः । गतिमाश्रित्य चतुर्विधा जीवाः- १ - केचिन्मनुष्यगतिगताः २ - केचिद्देवगतिगताः ३-केचिन्नरकगतिगताः ४- केचित्तिर्यग्गतिगता इति विवक्षया चतुर्विधा जीवाः । करणत्ति करणानीन्द्रियाणि तान्याश्रित्य पंचविधा जीवाः १ - पृथिव्यप्तेजोवायुवनस्पतिजीवा एकेन्द्रियाः, २- शङ्खकपर्दकादयो द्वीन्द्रियाः ३ - गोमीमत्कुणादयस्त्रीन्द्रियाः ४ - वृश्चिकादयश्चतुरिन्द्रियाः ५-नारकादयः पञ्चेन्द्रिया इति विवक्षया पञ्चविधा जीवाः । काहिं इति-कायमाश्रित्य षड्विधा जीवाः, १- केचित् पृथिवीकायगताः २-केचिदप्कायगताः ३-केचित्तेजःकायगताः ४ - केचिद्वायुकायगताः ५ - केचिद्वनस्पतिकायगताः ६ - केचित् त्रसकायगता इति विवक्षया षड्विधा जीवाः । । ३ । । देव : तथा पुढवी- आऊ - तेऊ - वाउ वणस्सइ तहेव बेइंदी | तेइंदिय - चउरिंदिय - पंचिंदियभेयओ नवहा । । २०९ । । चक्रे० : सुगमा । । २०९ ।। देव० : पृथिव्यापस्तेजोयोगात्तेजोऽग्निर्वायुर्वनस्पतिस्तथैव द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः सोपस्कारत्वादिति भेदान्नवधा जीवा भवन्तीति शेषः । ननु पृथिव्यादीनि जीवशरीराणि काठिन्यादिलक्षणानि, जीवाः पुनरुपयोगलक्षणास्तत्कथं पृथिव्याप इत्यादिभेदतो नवधा जीवा इति ? उच्यते - जीवशरीरयोरन्योन्यानुगतत्वेन विभागाभावादेवमुक्तम्, न चैतदनार्षम्, यत उक्तम्- 'अन्नुन्नाणुगयाणं इमं च तं च त्ति विभज्जणमजुत्तं' इत्यादि । एवमन्यत्रापि यथासम्भवमूह्यमिति गाथार्थः । । २०९ ।। १. नत्वेतान्येव जीवाः काठिन्यादिलक्षणानि ह्यमूनि T, C
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy