________________
२६८
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
अपि ज्ञानसुखादयः, इति नात्र महदन्तरम् । अथायं न दृग्विषय इति नास्ति, न अस्याप्यनेकान्तात्, उक्तं हि - न च नास्तीह तत्सर्वं चक्षुषा यन्न गृह्यते, अन्यथा चैतन्यमपि न दृग्विषय इति तस्याप्यसत्वमापद्येत। अथ तत्स्वसंविदितमिति सदुच्यतेऽयमपि तथाभूत एवेति । यदुक्तम् - अस्त्येव चात्मा प्रत्यक्षो जीवो ह्यात्मानमात्मनाऽहमस्मीति संवेत्ति, रूपादीनि यथेन्द्रियैरिति । किं बहुना, यथा चैतन्यमस्तीत्यभ्युपगम्यते, तथात्माप्यभ्युपगन्तव्यः, तथा चाह -
ज्ञानं स्वस्थं परस्थं वा यथा ज्ञानेन गृह्यते ।
ज्ञाता स्वस्थं परस्थं वा तथा ज्ञानेन गृह्यताम् ।। [ ] इति। अथ सर्वसम्बन्धी हेतुः, अयमप्यसिद्धोऽहमस्मीति प्रत्ययेन प्रतिप्राणि स्वात्मनः केवलिनां च सर्वात्मनामुपलम्भादिति । यदपि चैतन्यं भूतधर्म इत्यभिहितम्, तदपि प्रलापमात्रम्, भूतधर्मत्वे हि लेष्ट्वादिष्वप्युपलभ्येत । अथ कायाकारपरिणतेष्वेव तदुन्मीलतीति चेदिदमप्यनैकान्तिकं मृतशरीरेष्वनुपलम्भादिति । तस्मादस्ति जीवः स च न विभुशरीरः, एवं तल्लिङ्गभूतचैतन्योपलम्भाद् नाप्यङ्गुष्ठपर्वाद्यधिष्ठान: सर्वशरीरव्यापितया चैतन्योपलब्धेः किंतु देहव्यापी, तेन सह कथञ्चिद्भिन्नाभिन्नस्तथा नैकान्तेन नित्यः, एवं हि - पूर्वक्रियाकर्तृत्वस्वरूपापरित्यागादुत्तरक्रियाकर्तृत्वं न स्यात् । नाप्येकान्तेनाऽनित्यो द्वितीयादिसमयेषु सर्वथाऽभावप्रसङ्गादैहिकामुष्मिकसमस्तव्यवहारविलुप्तेश्च । यदुक्तम् -
तित्तीसमो किलामो सारक्खवि पक्खपच्चयाईणि ।
अज्झयणं झाणं भावणाय कासव्वणासंमि ।। [ ] तस्माद् द्रव्यार्थतया नित्यः, पर्यायार्थतया त्वनित्योऽस्त्येव जीवः । इति कथं तद्भेदपरिकल्पनमभित्तिकचित्रकर्मारम्भसन्निभमिति सर्वं सुस्थम्। इह च सर्वजीवानां
चेतनावत्त्वेनैकरूपाणामेव सतां संसारिसत्त्वेषु चरत्वाचरत्वाद्युपाधिद्विविधत्वादिकमवसेयमिति गाथार्थः ।।२०८।।
* नवतत्त्वप्रकरणे-३ * अथ जीवतत्त्वस्याभिप्रायान्तरेण प्रक्षेपगाथयैकादिक्रमेण षड्विधजीवभेदानाह -
एगविह-दुविह-तिविहा चउबिहा-पंचछविहा जीवा । चेयण-तसइयरेहिं वेय-गइ-करण-काएहिं ।।